SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ उपराध्यबनानम् ॥८९॥ रपि विश्वमनोहरः ॥ १७७ ॥ यासां रूपं प्रेक्षमाणा, जितदेवाङ्गनागणम् ॥ मन्ये सर्वेपि गीर्वाणा, निनिमेषदृशोऽभवन् !! १७८ ॥ इक्ष्वाकुवंशजा राज-कन्याश्चातुर्यशालिनीः ।। अष्टोत्तरसहस्रं ताः, क्षमापस्तेनोदवाहयत् ।। १७९ ॥ [युग्मम् ] मघवानिव देवीभिः, समं ताभिः समं सुखम् ।। भुञ्जानो गमयामास, कालं कश्चिनिमेषवत् ॥ १८० ॥ अन्यदा च नमि राज्ये, न्यस्य पद्मरथो नृपः ॥ वैराग्याव्रतमादाय, क्रमात्प्राप परम्पदम् ।। १८१ ॥ ततो नमिनृपो राज्यं, न्यायेनापालयत्तथा।। अन्यायशब्दो व्यर्थोभू-द्वाच्याभावाद्यथा भुवि ॥१८२॥ इतश्च यस्यां दोषायां, न्यहन्मणिरथोऽनुजम् ।। तस्यामेवाहिना दष्टो, मृत्वा तुर्यां ययौ भुवम् ॥१८३॥ राज्ये न्यस्य ततश्चन्द्र-यशसं सचिवादयः।। द्वयोः सोदरयोहे, समं सञ्चस्करुस्तयोः । १८४॥ ततश्चन्द्रयशा भूपो, नीतिवल्लीपयोधरः। पितेव पालयामास, प्रजाः प्राज्यपराक्रमः ॥ १८५ ॥ अन्यदा च नमे राज्ञो, राज्यसारः सितद्विपः ।। उन्मूल्यालानमुन्मत्तो-ऽचलद्विन्ध्या चलम्प्रति ।। १८६ ॥ सुदर्शनपुरोपान्ते, वजन्तं तश्च दन्तिनम् ॥ अपश्यंश्चन्द्रयशसो, वाह्यालीस्थस्य सेवकाः ॥ १८७ ॥ श्वेतद्विपोयं | यातीति, ते नृपाय न्यवेदयन् ॥ भूपोपि तं चिरात्खिन्नं, पुरे प्रावीविशन्निजे ॥ १८८ ॥ तत्रस्थं कुञ्जरं तश्च, ज्ञात्वा चरनरेनेमिः ॥ तन्मार्गणाय तत्रैकं, प्रेषीत्सन्देशहारकम् ॥ १८९ ॥ सोपि गत्वावदच्चन्द्र-यशसं धृतसौष्ठवः ।। वक्ति त्वां मन्मुखेनेति, राजन्नमिमहीपतिः ॥ १९० ॥ गृहीतोस्ति त्वया श्वेत-हस्ती यः स तु मामकः । तदेनं प्रेषयेः सद्यो, नान्यदीयं हि सुस्थिरम् ।। १९१ ॥ ऊचे चन्द्रयशा दूत !, जगाद किमिदं नमिः ।। मागितानि हि रत्नानि, दीयन्ते न हि केनचित् ॥ १९२ ॥ भवन्ति न च | कस्यापि, नाम्ना तान्यङ्कितानि भोः! ग्राह्याणि किन्तु बलिभि-वीरभोग्या हि भूरियम् ॥ १९३ ॥ तां चन्द्रयशसो वाचं, दूतो | गत्वाऽवदनमेः ॥ कोपाटोपात्ततः सोपि, यात्रानकमवादयत् ।। १९४ ॥ प्रत्यवन्तीन् प्रतस्थे च, कलितः प्रबलैबलैः ॥ प्रत्यनीकन ॥८९॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy