________________
उचराबयनसूत्रम् ॥८ ॥
SARGCC
अध्या
-%A4%BOOK
श्रितोपि यः॥१५५॥ सुरोथ मदनामूचे, किं कुर्वेहं तवेहितम् ।। सावादीत्तत्वतोभीष्टं, कर्तुं नो यूयमीश्वराः ॥१६०॥ यन्मे जन्मजरा| मृत्यु-रोगादिरहितं हितम् ।। मुक्तिसौख्यं प्रियं तच्च, खोद्यमेनैव सिध्यति ॥ १६१ ॥ तथापि मां सुरप्रष्ठ !, मिथिलायां नय द्रुतम् ।। परलोकहितं कुर्वे, यथा वीक्ष्य सुताननम् ॥१६२॥ ततो देवेन सा निन्ये, मिथिलानगरी क्षणात् ।। जन्मदीक्षाकेवलानां, स्थान मल्लीनमीशयोः ॥ १६३ ॥ तत्र पूर्व जिनान्नत्वा, जग्मतुर्मदनासूरौ ॥ साध्वीनां सन्निधौ ताश्च, प्रणम्याग्रे न्यषीदताम् ॥१६४॥ ततः साध्व्योऽभ्यधुर्धर्म, यल्लब्ध्वा मानुषं भवम् ॥ धर्माधर्मविपाकञ्च, ज्ञात्वा धर्मो विधीयताम् ॥ १६५ !। “विघटन्ते हि जीवानां, धनभूघनबन्धवः ॥ धर्मस्तु नो विघटते, कदापि श्रीजिनोदितः" ॥१६६॥ इत्यादिदेशनाप्रान्ते मदनामवदत्सुरः ।। एहि यावो राजगेहे, द्रष्टुं सुतमुखाम्बुजम् ॥१६७।। साब्रवीदथ मे प्रेम्णा, कृतं दुखौघदायिना ।। भवे हि भ्राम्यतां कस्को, नाभूद्वन्धुः परोऽथवा ॥१६८।। तद्ग्रहीष्याम्यहं दीक्षां, त्वं तु स्वाभीष्टमाचर ॥ तयेत्युक्ते सुरो नत्वा, साध्वीस्ताश्च ययौ दिवम् ।। १६९ ॥ साध्वीनामन्तिके तासां, प्राबाजीत्सापि शुद्धधीः ॥ सुव्रतेत्यभिधां प्राप्ता, दुस्तपं च व्यधात्तपः ॥ १७०॥ इतश्च तस्य बालस्य, प्रभावेणाखिला द्विषः॥ नेमुः पद्मरथं देव-महिम्नेव द्रुमा जिनम् ॥१७१॥ ततस्तुष्टो नृपस्तस्य, नमिरित्यभिधां व्यधात् ॥ कृत्वा महोत्सवं तुल्यं, महत्त्वस्योचितं श्रियाम् ॥ १७२ ॥ साधुधर्मः समितिभि-रिव धात्रीभिरन्वहम् ॥ पञ्चभिः संरक्ष्य-६ माणः, क्रमाद्वृद्धि वभार सः॥१७३।। किश्चिद्बुद्धिं च सम्प्राप्त-श्चटुलैश्चलनैश्चलन् ।। बुवंश्च मन्मनालापै-विश्वं विश्वममोदयत् ॥१७॥ अष्टमे वत्सरे तं च, कलाग्रहणहेतवे । निनायोपकलाचार्य, भूपो भूयोभिरुत्सवः ।। १७५ ॥ सोथ प्रज्ञासुराचार्यः, कलाचार्यान्तिके पठन् । एकशो दर्शिता एव, जग्राह सकलाः कलाः॥ १७६ ॥ क्रमाच्च यौवनं प्राप्तो, लावण्यजलवारिधिः ।। अकाम्यत स देवीभि
॥८॥
1660