________________
उत्तराध्यबनसूत्रम् ॥८५॥
॥८५॥
सत्यप्येवं मया शीलं नैव त्याज्यं कथञ्चन ॥ पीडनव्यसनेपीक्षु - मधुयूँ किं विमुञ्चति १ ॥ १०५ ॥ अयञ्च मदनोन्मादो| न्मत्तो वेति न किञ्चन । तदुपायेन केनाएं, दुर्बोधं बोथयाम्यहम् || १०६ ।। अस्य व्याक्षेपहेतोर्वा, कालक्षेपं करोम्यहम् || | प्रशस्यते प्राज्ञै-रशुभे समुपस्थिते ॥ १०७ ॥ ध्यात्वेति साम्यधादक्ष !, नीत्वा नन्दीश्वरेऽद्य माम् ।। देवान् वन्दय तत्राहं करिष्यामि तव प्रियम् ॥ १०८ ॥ ततः स तां विमानस्थां हृष्टो नन्दीश्वरेऽनयत् । तत्र चार्हद्गृहः सन्ति, द्वापञ्चाशदनश्वराः ॥ १०९ ॥ दीर्घेषु योजनशतं, तदर्थं पृथुलेषु च ॥ चैत्येषु तेषु तुङ्गेषु, योजनानि द्विसप्ततिम् ॥ ११० ॥ चतुर्विंशं शतं सन्ति, प्रतिमाः शाश्वतार्हताम् ॥ सर्वरत्नमयाः पञ्च - धनुः शतसमुच्छ्रयाः ॥ १११ ॥ [ युग्मम् ] ततो विमानादुत्तीर्य, मदनाखेचरौ मुदा | पूजापूर्वमवन्देतां, ऋषभाद्यान् जिनोत्तमान् ॥ ११२ ॥ चतुर्ज्ञानधरं तं च मणिचूडमहामुनिम् ॥ तावुभावपि वन्दित्वा यथौचित्यं न्यषीदताम् ॥ ११३ ॥ ततो ज्ञानेन विज्ञाय, मदनाचरितं मुनिः ॥ धर्मं मणिप्रभायेति, समयार्हमुपादिशत् ॥ ११४ ॥ ब्रह्मचर्यं परब्रह्म-निदानं सम्पदां पदम् ॥ पालनीयं यथाशक्ति, सर्वतो देशतोऽथवा ।। ११५ ।। सर्वत्रीणां परित्यागे, सर्वतो ब्रह्म कथ्यते ॥ परनारीनिषेधे तु तदुक्तं देशतो जिनैः ॥ ११६ ॥ ततो यः सकला नारी - विहातुं न प्रभुर्भवेत् ॥ तेनापि पररामा तु, त्याज्या नरकदायिनी ॥ ११७ ॥ नरः परस्त्रियां रक्तः, क्षणिकं सुखमीक्षते । न तु तत्सङ्गमोत्पन्न-मनन्तं दुःखमायतौ ॥ ११८ ॥ परस्त्रीसेवनात्सौख्य-मभिकांक्षति यो जडः ।। विषवल्लीफलाखादा-त्स हि वाञ्छति जीवितम् ! ॥ ११९ ॥ तत्कलङ्ककुलस्थानं, कीर्तिवल्लीकुठारिका ॥ हेया पराङ्गनाऽवश्यं, नरकाध्वप्रदीपिका || १२० ॥ श्रुत्वेति खेचरो बुद्ध:, क्षमयित्वा स तां जगौ ॥ अथ त्वमसि जामिमें, ब्रूहीष्टं किं करोमि ते ॥ १२१ ॥ सापि प्रीताब्रवीद्भ्रातः !, सर्वमिष्टं त्वया कृतम् ॥ इदं दर्शयता तीर्थ, वच्मि तत्किमतः परम् १ ॥ १२२ ॥ अथ मे लघुपुत्रस्य, वृत्तान्तं
अध्य० ९
॥८५॥