________________
स बालो मारयिष्यते । आहारविरहाधद्वा, स्वयमेव मरिष्यति ! ॥८८॥ तन्मे पुत्रप्रदानेन, प्रसादं कुरु सुन्दर ! ॥ तमिहानय तत्राशु, उत्तराभ्य
मा नय मां वा नयाश्रय ! ।। ८९ ॥ उवाच खेचरश्चेन्मां, रमणं प्रतिपद्यसे । तदा सदा दास इवा-ऽऽदेशकारी भवामि ते ॥ ९ ॥ यनसूत्रम्
|किश्चात्र शैले गान्धार-देशे रत्नावहे पुरे ॥श्रेणिद्वयप्रभुरभू-न्मणिचूडामिधो नृपः ॥ ९१ ॥ तस्य पुत्रोस्मि कमला-वतीकुक्षीसमुद्भवः ॥८४॥ ॥ नाम्ना मणिप्रभो भूरि-महाविद्याबलान्वितः ॥ ९२ ॥ अन्यदा मत्पिता श्रेणि-द्वयराज्यं प्रदाय मे ॥ चारणश्रमणोपान्ते, विरक्तो
व्रतमाददे ।। ९३ ॥ क्रमाच्च विहरमत्रा-ऽऽगतः सोऽभूद्गतेऽहनि ।। चैत्यानि वन्दितुं नन्दी-श्वरे चाद्य गतोऽधुना ॥ ९४ ॥ तश्च नन्तुं व्रजस्तत्र, त्वां पतन्तीं विहायसः ।। कल्पवल्लीमिवानन्द-दायिनीमहमाददे ॥ ९५ ॥ ततो यथा रक्षिता त्वं, पतनोपद्रवान्मया ॥ मदनोपद्रवाद्भद्रे !, तथा त्वमपि रक्ष माम् ॥ ९६ ॥ अन्यच्च त्वत्सुतं वाहा-पहृतो मिथिलापतिः ॥ निरपत्योऽग्रहीत्पद्म-रथराट् पर्य| टन् वने ॥ ९७ ।। क्षणाम्मिलितसैन्यश्च, गत्वा पुर्यां तमार्पयत् ।। महिष्याः पुष्पमालायाः, सापि तं पाति पुत्रवत् ॥ ९८ ॥ प्रज्ञप्तीविद्यया रात-न्मयोक्तं तच नान्यथा ।। तत्प्रसीद शुचं मुश्च, सफलीकुरु यौवनम् ॥९९॥ मां विधायाधिपं सर्व-खेचरीणां भवेश्वरी॥ दृशा वाचा च मां रक्तं, सम्भावय सुलोचने ! ॥ १० ॥ तदाकर्ण्य सती दध्यौ, विपाकः कर्मणामहो! ॥ अन्यान्यव्यसनाऽङ्कुरपूरधात्री भवामि यत् ! ॥ १०१ ॥ विहाय पुत्रसाम्राज्य-परिच्छदधनादिकम् ।। यत्रातुं निरगा भङ्ग-स्तस्येहाप्युपतिष्ठते ! ॥ १०२ ॥
| तत् प्राणिनामपुण्यानां, गरीयानप्युपक्रमः ।। दुःखायव भवेत्किं वा, पौरुषं विमुखे विधौ ? ॥ १०३ ।। ॥८४॥ | यदुक्तं-"छिचा पाशमपास्य कूटरचनां भक्त्वा बलाद्वागुरां । पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ॥
व्याधानां शरगोचरादपि जवादुत्प्लुत्य धावन्मृगः । कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ? ॥ १०४ ।”
11८30