________________
उचराध्य
यनसूत्रम् ॥८३॥
॥८३॥
| नैकश्वापदसङ्कुलाम् ॥ ६९ ॥ तत्र यान्ती च मध्याह्ने, प्रापदेकं महासरः ॥ मुखादि तत्र प्रक्षालय, प्राणवृत्तिं व्यधात्फलैः ॥ ७२ ॥ साकारानशनं कृत्वा, साथ मार्गश्रमाकुला । तद्व्यपोहाय तत्रैवा-रण्ये रम्भागृहेऽस्वपीत् ।। ७१ ।। क्रमाच्च पद्मिनीनाथे, रागवत्यपराङ्गते । तदुःखादिव सङ्कोच - माश्रिते पद्मिनीकुले ॥ ७२ ॥ रविकण्ठीरवाभावा निःशङ्कं भुवने वने ॥ विहरत्सु तमःपुञ्ज - कुञ्जरेषु | निरन्तरम् || ७३ || उडुषूज्जृम्भमाणेपु, निशावल्लीसमेष्विव ॥ निशावियुक्ते चक्राङ्ग चक्रे क्रन्दति दारुणम् ॥ ७४ ॥ तमोभिव्याप्ति गहनी - भूते च गहनान्तरे || रात्रिर्जातेत्यवहिता, सा बभूव महासती ॥ ७५ ॥ [ चतुर्भिः कलापकम् ] तदा च व्याघ्रसिंहादि-गुञ्जि तैर्घुघूत्कृतैः || घोणिघोणारवैर्व्याल- फूत्कृतैः फेरुफेत्कृतैः ॥ ७६ ॥ विभ्यती सा नमस्कार - मन्त्रं सस्मार मानसे । स हि सर्वास्व| वस्थासु, सहायो हेतुमन्तरा ॥ ७७ ॥ [ युग्मम् ] अर्धरात्रे च तत्कुक्षा - वुत्पेदे भूसी व्यथा || मार्गश्रमभयोद्भूत-गर्भसञ्चलनोद्भवा ॥ ७८ ॥ सुषुवे साथ कृच्छ्रेण, सुतं लक्षणलक्षितम् ॥ तत्स्पर्धयेव पूर्वापि, बालार्क सुषुवे तदा ॥ ७९ ॥ तयोरेव तदा जज्ञे, बालयो रुपमा मिथः । सच्चक्रानन्दिनोस्तेजखिनोः कोमलपादयोः ॥ ८० ॥ कन्धरालम्बितयुग- बाहुनामाङ्कमुद्रिकम् । तं बालं तत्र मुक्तत्वाथ, रत्नकम्बलवेष्टितम् ॥ ८१ ॥ स्वं मनो रक्षकमित्र, तत्समीपे विमुच्य सा । ययौ सरसि वासांसि क्षालयामास तत्र च ॥ ८२ ॥ [ युग्मम् ] मज्जनाय प्रविष्टां च तटाके तां जलद्विपः ॥ धावन् करेण जग्राह बकोटः शफरीमिव || ८३|| उच्चैरुल्लालयामास, तां स कन्दुकलीलया ।। आयाति दुर्दशायां हि, स्वाजन्यादिव दुर्दशा ॥ ८४ ॥ पतन्तीमम्बरात्तां च, नेत्रकैरवकौमुदीम् ॥ विद्याधरोऽग्रहीनदी -श्वरद्वीपं व्रजन् युवा । ८५ । वैताढये तेन नीता च रुदती सा तमब्रवीत् ॥ गतरात्रौ महाभाग !, प्रसूतास्मि सुतं बने ॥ ८६ ॥ तं च रम्भागृहे मुक्त्वा स्नानार्थं सरसीं गता || जलद्विपेनोत्क्षिप्ताहं, पतन्ती भवताऽऽददे ॥ ८७ ॥ तत् श्वापदेन केनापि,
अध्य० ९
॥८३॥