________________
उत्तराध्यघनसूत्रम् ॥८१॥
॥८१॥
रम्भावेश्मनि चाखपीत् ॥ ३२ ॥ तदा मणिरथो दध्यौ, स्वल्पतन्त्रो ममानुजः ॥ निश व्याप्ततमोघोरे, बाह्योद्यानेऽद्य तिष्ठति ||३३|| तत्तत्र गत्वा तं हत्वा पूरयिष्यामि कामितम् । ध्यात्वेति खङ्गमादाय, ययाबुद्यानमुद्यतः ॥ ३४ ॥ यामिकानिति चाप्राक्षी-युगबाहुः व विद्यते १ ॥ रम्भागृहेत्र सुप्तोस्ती - त्यूचिरे तेपि सम्भ्रमात् || ३५ || मा भूद्भ्रातुर्वनस्थस्यो -पद्रवः कश्चिदित्यहम् ॥ इहागामिति सञ्जल्पन्, सोपि रम्भागृहेऽविशत् ।। ३६ ।। ससम्भ्रमं समुत्थाय, नमन्तं स्माह चानुजम् ॥ भ्रातनत्र निशि स्थातुं युक्तमागच्छ तत्पुरे |||३७|| उल्लंघ्या नाग्रजस्याज्ञा, तातस्येवेति चिन्तयन् ॥ युगबाहुस्ततो यावत्पुरे गन्तुं प्रचक्रमे ||३८|| तावत्पापापकीत्यादिभयमुत्सृज्य दुर्मतिः ॥ ग्रीवायामसिना भूप-स्तं विश्वस्तं जघान सः । ॥ ३९ ॥ प्रहारवेदनाक्रान्ते, तस्मिंश्च पतिते भुवि ॥ अहो ! अक्षत्रमक्षत्रं, पूच्चकारेति तत्प्रिया ॥ ४० ॥ ततो दधाविरे कृष्ट- मण्डलाग्रोद्भटा भटाः ॥ किमेतदस्तीत्यूचाना- नित्यूचे तां भूपतिः ॥ ४१ ॥ मत्करात्पतितः खड्गः प्रमादात्तदलं भिया ॥ तेनेत्युक्ते च तेऽजानन् सर्वं तस्य कुचेष्टितम् ॥ ४२ ॥ ततो मणिरथं दूर - मपसार्य बलेन ते ।। युगबाहोः स्वरूपं तत्, तत्पुत्राय न्यवेदयन् ॥ ४३ ॥ सोपि शोकाकुलो वैद्यान् समाहूयाग मद्वने ॥ व्रणकर्माणि यत्नेन पितुञ्चाकारयत्कृती ॥ ४४ ॥ क्षणान्तरे च निश्रेष्टो, नष्टवाग्मीलितेक्षणः || युगबाहुरभूद्रक्त-निर्गमा| त्पाण्डुविग्रहः || ४५ ॥ ततो ज्ञात्वा तमासन्न -मृत्युं धीरा मृदुखरम् | प्रोचे मदनरेखेति, तत्कर्णाभ्यर्णमाश्रिता ॥ ४६ ॥ धीर ! धीरस्वमादृत्य, चेतःस्वास्थ्यमुरीकुरु कस्याप्युपरि रोषं च मा कार्षीस्त्वं धियांनिघे ! ॥ ४७ ॥ सहस्व व्यसनं चेद-मागतं निजकर्मणा ॥ अपराध्यति जन्तोर्हि, निजं कर्मैव नापरः ॥ ४८ ॥ उक्तञ्च - "जं जेण कथं कम्मं, अन्नभवे इहभवे अ सत्तेणं ॥ तं तेण वेइअवं, निमित्तमित्तं परो होइ ।। ४५ ।। किञ्चाईत्सिद्ध निर्ग्रन्थ-धर्माणां शरणं कुरु । जीवहिंसादीनि पाप-स्थानान्यष्टादश त्यज ॥ ५० ॥
अध्य० ९
॥८१॥