SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ प्राप्नोत्येतां विडम्बनाम् ।। दृश्यते क्षणिकत्वं तत् , क्षणिकानामिव श्रियाम् ।। ८० ।। आयाति याति च क्षिप्रं, या सम्पत्सिन्धुपूरउत्तराज्य- वत् ।। पांशुलायामिव प्राज्ञ-स्तस्यां को नाम रज्यते ॥८१॥ त्यक्त्वा विडम्बनप्रायां, तदेनां राज्यसम्पदम् ॥ श्रये निःश्रेयसकरी, बनसूत्रम् शमसाम्राज्यसम्पदम् ।। ८२ ॥ ध्यात्वेति विध्यातममत्वहिः, कृत्वा स्वयं लोचमुपात्तदीक्षः ॥ प्रत्येकबुद्धो द्विमुखः सुपर्व-वितीर्णI७९॥ | Pा लिङ्गो व्यहरत पृथिव्याम् ॥ ८३ ॥ [इति श्रीद्विमुखनृपकथा ॥२॥] अथ प्रत्येकबुद्धस्य, नमिनाम्नो महात्मनः ॥ वलयात् प्रतिबुद्धस्य, तृतीयस्य कथां बुवे ॥ १॥ तथाह्यत्रैव भरते, देशे माल& वकाभिवे ॥ आसीदासीकृतस्वर्ग, सुदर्शनपुरं पुरम् ॥ २ ॥ तत्रासीच्छत्रुवित्रासी, राजा मणिरथाभिधः॥ युगबाहुस्तदनुजो, युवराजोPऽभवत्सुधीः ॥३॥ सौन्दर्येणातिवर्येण, जयन्ती जयवाहिनीम् ।। जिनवाणीसुधापान-ध्वस्ताज्ञानहलाहला ॥ ४॥ निश्चलं शैलरेखाव द्दधती शीलमुत्तमम् ।। युगबाहोश्च मदन-रेखासंज्ञाऽभवत्प्रिया ॥ ५॥ [युग्मम् ] तस्या गुणामृतापूर्ण--चन्द्रोज्ज्वलयशोद्युतिः॥ मुतश्चन्द्रयशाश्चन्द्र, इवानन्दप्रदोऽभवत् ।। ६ ॥ भ्रातृजायां तां च दृष्ट्वा-ऽन्यदा मणिरथो नृपः । इत्यन्तश्चिन्तयामास, व्यथितो मान्मथैः शरैः ॥७॥ यदि भोगान भुञ्जेह-मनयाङ्गनया समम्॥ अवकेशिद्रुमस्येव, तदा मे निष्फलं जनुः ।।८॥ कथं पुनर्विनारागं, स्यादस्याः | सङ्गमो मम ॥ नोकपक्षया प्रीत्या, कामिनां कामितं भवेत् ! ॥९॥ तदस्याः प्रणयोत्पत्ते-रुपायान् रचयाम्यहम् ।। पश्चाद्विज्ञाय तद्भाव, करिष्यामि यथोचितम् ॥ १० ॥ ध्यात्वेति तस्यै ताम्बूल-पुष्पभूषांशुकादिकम् ॥ प्रैषीदास्या समं काम--विव॥७९॥ शानामहो! कुधीः ॥ ११॥ सा तु ज्येष्ठप्रसादोय-मिति ध्यात्वा तदाददे ॥ अथान्यदा नृपोवादी-द्विजने तामिति स्वयम् ॥ १२ ॥ Bा त्वद्रूपं पेक्ष्य रक्तं मां, पुमांसं स्वीकरोषि चेत् ।। सुन्दरि ! त्वां तदा कुर्वे, स्वामिनी राज्यसम्पदाम् ॥ १३ ॥ सा प्रोचे स्त्रीत्वषण्डत्व-17 4343436
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy