________________
नृपः॥ ६२ ॥ अद्य ते विद्यते राजन् !, किं पीडा कापि रोगजा । हेमन्तब्जमिव म्लान-मास्यं ते कथमन्यथा ।। ६३ ॥ पृष्टोउचसध्य
प्येवं प्रतिवचः, प्रद्योतो न ददौ यदा ॥ तदातिव्याकुलो भूपः, सनिबन्धमदोवदत् ॥ ६४ ॥ राजन् ! प्रतिवचो देहि, निवेदय निजां बनमत्रम्
18/ व्यथाम् ।। अब्रुवाणे त्वयि कथं, भाविनी तत्प्रतिक्रिया ? ॥६६॥ ततः स दीर्घ निःश्वस्य, जगौ लजां विहाय च ॥ न व्याधि धते llocll
राजन् !, बाधते किन्तु मां स्मरः ॥६६॥ तच्चेदिच्छसि मे क्षेम, तदा मदनमञ्जरीम् ॥ देहि पुत्रीं निजां मां, नो चेद्बह्रौ विशाम्य| हम् ॥६७॥ द्विमुखोपि ददौ तस्मै, निजां पुत्रीं महामहैः ॥ ताश्चावाप्य निजं जन्म, सोपि धन्यममन्यत ॥ ६८ ॥ व्यसृजतिसुखम्तं ४
चा-न्यदा दत्वा हयादिकम् ॥ प्रद्योतोपि ततोयासी-त्पुरीमुज्जयनी मुदा ॥ ६९॥ | उपस्थिते शक्रमहे-ऽन्यदा च द्विमुखो नृपः॥ नागरानादिशच्छक्र-ध्वजः संस्थाप्यतामिति ॥ ७० ॥ ततः पटु ध्वजपटं, कि| किणीमालभारिणम् ।। माल्यालिमालिनं रत्न-मौक्तिकावलिशालिनम् ।। ७१ ॥ वेष्टितं चीवरवरै-र्नान्दीनिर्घोषपूर्वकम् ॥ द्रुत्तम-18 त्तम्भयामासः, पौराः पौरन्दरं ध्वजम् ॥ ७२ ॥ [ युग्मम् ] अपूजयन् यथाशक्ति, तं च पुष्पफलादिभिः ॥ पुरस्तस्य च गीतानि, | जगुः केपि शुभस्वराः॥ ७३ । केचित्तु ननृतुः केचि-दुच्चैर्वाद्यान्यवादयन् ॥ अथितान्यर्थिनां केपि, ददुः कल्पद्रुमा इव ।। ७४ ॥
| कर्पूरमिश्रघुसृण-जलाच्छोटनपूर्वकम् ॥ मिथः केचित्तु चूर्णानि, सुरभीणि निचिक्षिपुः ॥७५।। एवं महोत्सवैरागा-पूर्णिमा सप्तमे ॥७८॥
दिने ॥ तदा चापूजयद्भूरि-विभूत्या भूधवोपि तम् ।। ७६ ॥ सम्पूर्णे चोत्सवे वस्त्र-भूषणादि निजं निजम् ॥ आदाय काष्ठशेष सतं, पौराः पृथ्व्यामपातयन् ॥ ७७ ॥ परेशुस्तश्च विण्मूत्र-लिप्तं कुस्थानसंस्थितम् ॥ आक्रम्यमानं बालाये-भूपोऽपश्यद्वहिर्गतः
॥ ७८ ॥ ततः संवेगमापन्नो दध्यौ चैवं धराधिपः ॥ य एवं पूज्यमानोऽभू-त्सवैलॊकैर्गतेऽहनि ॥ ७९ ॥ स एवाद्य महाकेतुः,
8
264-
॥७
॥
*