________________
उत्तराज्ययनसूत्रम् ॥७६॥
॥ ७६ ॥
॥ २२ ॥ इतश्वोज्जयनी भर्तु - श्वण्डप्रद्योत भूभृतः ॥ दूतः केनापि कार्येण, काम्पिल्यनगरं ययौ ।। २६ । स च प्रत्यागतोवन्तीमिति प्रद्योतमब्रवीत् || स्वामिन्! काम्पिल्यनाथस्य, जातमस्ति मुखद्वयम् ॥ २७ ॥ राज्ञाथ कथमित्युक्ते, सोवादीत्तस्य भूपतेः ।! मौलिरेकोस्ति तस्मिंश्चा-रोपिते स्यान्मुखद्विकम् ॥ २८ ॥ तच्छ्रुत्वा स नृपो जात-लोभः कोटीरहेतवे ।। वाग्मिनं प्राहिणोद्भूतं पार्श्वे द्विमुखभूभुजः ||२९|| ततः स गत्वा नत्वा च पाञ्चालाधीशमब्रवीत् ।। चण्डप्रतापः श्रीचण्ड - प्रद्योत स्तेवदत्यदः ||३०|| मुखद्वयकरं मौलि - रत्नं मे प्रेषयेद्रुतम् । नोचेद्रणाय प्रगुणो भवेः किं भूरिभाषितैः १ ।। ३१ ।। ततोवादीन्नृपो दूत ! यदि प्रद्योतभूधवः ॥ दत्ते मे याचितं किञ्चित्, तदाहमपि तं ददे || ३२ ॥ किं वः प्रार्थ्यमिति प्रोक्ते, दूतेन क्ष्माधवोऽभ्यधात् ॥ रदांशुनिकरोन्मिश्र - स्मितविच्छुरिताधरः ॥ ३३ ॥ गन्धद्विपोऽनलगिरि - रगिंभीरू रथोत्तमः । राज्ञी शिवाभिधा लोह - जङ्घः सन्देशहारकः ॥ ३४ ॥ स्वराज्यसाराण्येतानि दीयन्ते तेन चेन्मम | तदा मयापि मुकुटो, राज्यसारः प्रदीयते ! ॥ ३५ ॥ गत्वा दूतोपि तत्सर्वं प्रद्योताय न्यवेदयत् ॥ ततो दिदीपे तस्योच्चैः, कोपो वायोरिवानलः || ३६ || ततो भेरीं प्रयाणार्थं, प्रवाद्योज्जयनीपतिः चचाल प्रति पाञ्चालं, चलयन्नचलां बलैः || ३७ || पूरयन्तो दिशः सर्वा, बृंहितैर्गर्जितैरिव ॥ धारासारैरिव रसां सिञ्चन्तो मदवारिभिः || ३८ || स्वर्णादिभूषणैर्विद्युद्द|ण्डैरिव विराजिताः ॥ लक्षद्विकं द्विपा रेजु - स्तत्सैन्येऽब्दा इवाम्बरे ।। ३९ ।। [ युग्मम् ] पञ्चायुतानि तुरगा - स्त्वराधरितवायवः ।। तत्सेनां भूषणानीवाम्बुजनेत्रां व्यभूषयन् ॥ ४० ॥ आयुक्तवाजिनो नाना-विधैः प्रहरणैर्भृताः । शताङ्गा विंशतिशती - मितास्तत्र विरेजिरे ॥ ४१ ॥ तद्बलं पबलं चक्रु - विक्रमक्रमशालिनाम् ॥ कृतवैरिविपत्तीनां पत्तीनां सप्त कोटयः || ४२ ।। सञ्जया सज्ज - यार्थिन्या, संयुतः सेनयानया । पाञ्चालसन्धिमच्छिन्नैः, प्रयाणैः स नृपो ययौ ||४३|| तञ्चायान्तं चरैर्ज्ञात्वा द्विमुखोपि महाबलः ॥
अच्य० ९
॥७६॥