________________
उत्तराध्य
यनसूत्रम्
॥७४॥
॥७४॥
| प्राज्यविक्रमः || ३५ || शोभमानोंसकूटेन, कूटेनेवावनीधरः ॥ तीक्ष्णाग्रवतुलोत्तुङ्ग - शृङ्गस्तारुण्यमासदत् || ३६ || [ युग्मम् ] तथाभूतं च तं क्ष्मापो, वृषभैरपरैः समम् ।। क्रीडयायोधयत्तं तु, नाजैषीत्कोपि शाङ्करः ॥ ३७ ॥ कालान्तरे च भूपालो, गतो गोकुलमीक्षितुम् || घट्टयमानं पडकाद्यै ददर्शकं जरद्गवम् || ३८ || महोक्षः स महावीर्यः, केत्यपृच्छच गोदुहम् ॥ सोवादीद्देव ! वृषभः, स एवायं जरातुरः ||३९|| तन्निशम्य नृपोध्यासी - दध्यासीनः शुभाशयम् ।। अहो ! अनित्यता सर्व भावानां वचनातिगा ॥ ४० ॥ बलिनोपि बलीवर्दा, नेशुर्हता अपि द्रुतम् ॥ यस्य हम्भारवेण ज्या टङ्कारेणेव पक्षिणः ॥ ४१ ॥ चलदोष्ठो गलद्द्दष्टि - नैष्टौजा विश्रसावशात् ॥ सोऽधुना पट्टकैः क्लृप्तां, सहते परिघट्टनाम् ॥ ४२ ॥ यद्रूपं पश्यतां नेन्दु-दर्शनेप्यादरोऽभवत् ॥ सोप्यद्य तनुते दृष्टो, जुगुप्सां हा पुरीषवत् ! || ४३ ॥ तद्विक्रमवयोरूप-विभुत्वविभवादिकम् ॥ वीक्ष्यतेध्यक्षमेवैत- त्पताकाञ्चलचञ्चलम् ॥४४॥ सत्यप्येवं जनो मोहा-न जानाति यथास्थितम् ॥ तत्तमेव निगृह्णामि, गृह्णामि जनुषः फलम् ।। ४५ ।। ध्यात्वेति कृत्वा स्वयमेव लोचं, बिभ्रन्मुनेर्वेषममर्त्यदत्तम् । प्रत्येकबुद्धः प्रतिबुद्धजीवी, भुवि व्यहार्षीत्करकण्डुराजः || ४६ || [इति करकण्डुनृपकथा ॥ १ ॥]
अथ प्रत्येकबुद्धस्य, बुद्धस्येन्द्रध्वजेक्षणात् ॥ राज्ञेो द्विमुखसंज्ञस्य कथां वक्ष्यामि तद्यथा ॥ १ ॥ पाञ्चाल देशतिलके, पुरे काम्पिल्यनामनि ॥ यघाभिधोभवद्भूपो, हरिवंशाब्धिचन्द्रमाः ॥ २ ॥ तस्यासीद्गुणमालाढ्या, गुणमालाह्वया प्रिया । तया समं नृपो भोगान्, भुञ्जानः कालमत्यगात् || ३ || अन्यदा च गुणास्थान -मास्थानस्थः स पार्थिवः । देशान्तरागतं दूत- मिति पप्रच्छ कौतुकात् ॥ ४ ॥ राज्येन्येषां विद्यमानं, मद्राज्ये किं न विद्यते १ ॥ दूतोवादीत्तव विभो !, नास्ति चित्रसभा शुभा ॥ ५ ॥ ततः कार्य विदाकार्य, नृपतिः स्थपतीन् जगौ || चित्रसत्रसभा चित्र सभा मे क्रियतामिति || ६ || प्रमाणमादेश इति, प्रोच्य तेपि शुभे
अध्य• ९
॥७४॥