SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ अध गर्भः स एवायं, येनेयं वेष्टिता पुरी ॥ तयेत्युक्तश्च स प्रापा-नन्दं वाचामगोचरम् ।। १९॥ उत्कण्ठोत्कर्षपानीया-पूर्णमानसमानसः।। उत्तराध्य-8 सुतेन सेन सङ्गन्तुं, गन्तुं प्रववृते नृपः ॥ २०॥ समायान्तं समाकर्ण्य, करकण्डुनृपोपि तम् ।। अभ्यागात् पादचारेण, पादयोश्चापयनरत्रम तत्पितुः ॥ २१ ॥ पितापि तं नतं दोा -मादाय परिषखजे । तदङ्गसङ्गपीयूष-निज निर्वापयन् वपुः ॥२२॥ भूपाब्धेः पश्यतस्तस्या॥७३॥ दृष्टपूर्व सुतोडुपम् ॥ ललझे लघु हृत्कूल-मुद्वेलैः प्रमदोदकैः ॥२३॥ तश्चाभ्यषिञ्चदङ्कस्थं, नृपः प्राक् सम्मदाश्रुभिः॥ राज्याभिषेकनीरैश्च, पश्चात्सिंहासनस्थितम् ॥ २४ ॥ इति चावोचदायुष्मन् !, राज्यमेतत्क्रमागतम् ॥ पालनीयं तथा लोका, यथा नैव स्मरन्ति माम्।।२५।। नियोज्येमां राज्यभार/-धुरां त्वयि धुरन्धरे । धास्ये धर्मधुरां युक्त-मिदं हि समये विदाम् ॥ २६ ॥ इत्युक्त्वा व्रतमादत्त, नृपः सद्गुरुसन्निधौ ।। करकण्डुधराधीश-कृतनिष्क्रमणोत्सवः ॥ २७ ॥ अथ प्रतापदावाग्नि-ध्वस्तवरियशोद्रमः ॥ करकण्डुनृपो राज्य-द्वयं सनयमन्वशात् ।।२८॥ स चोर्वीशः स्वभावेन, भृशं वल्लभगोकुलः ॥ स्वीचक्रे तानि भूयांसि, यादांसीव पयोनिधिः॥२९॥ स चान्यदा गतः क्वापि, गोकुले जलदात्यये। सुरभीः सौरभेयांश्च, तणकांश्च विलोकयन् ३०॥ गौरं * गौरीगुरुगिरेः, शृङ्गाद्गङ्गाजलाप्लुतात् ।। एक तर्णकमद्राक्षी-मुग्धं स्निग्धतनुच्छविम् ॥३१॥ जातप्रेमा ततस्तस्मिन् , भूमान् गोदुहमृचिवान् ॥ एतन्मातुः पयोस्यैव, देयं दोह्या तु नैव सा ॥ ३२॥ किञ्च वृद्धिं गतस्यास्य, मच्चित्तानन्ददायिनः ॥ अन्यासामपि धेनूनां, पायनीयं पयोन्वहम् ॥ ३३ ॥ गोपालोऽपि महीपाल-वचनं प्रतिपद्य तत् ।। तथैव ॥७३॥ विदधे को वा, राज्ञामाज्ञां विलुम्पति ? ॥ ३४ ॥ सोथ वत्सो वर्धमानः, स्पर्धमानः शशित्विषा ॥ पलोपचयदुर्लक्ष्य-कीकसः * हिमाद्रेः। AGAR ॥७३॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy