________________
पदा तिथिं व्यधात् ॥१०॥ तद्वाचनहविहोम-दीप्तक्रोधहुताशनः ॥ तमित्यूचे घराधीशो, भ्रकुटीविकटाननः ॥१॥ रे! मातङ्गस्य उत्तराध्य
दकिं बस्स, स्वजातिरपि विस्मृता ॥ अनात्मज्ञोलिखल्लेखं, यो ममोपरि दुष्टधीः ॥२॥ लेखेनानेन तं नीच-मस्पश्यं स्पृष्टपूर्विणा ।। मनसूत्रम् * अहं मलीनतां नीतो-ऽज्ञानाद्वा किं न जायते ॥ ३ ॥ रे विप्र! याहि याहि त्वं, नो चेन्मातङ्गलेखदः॥ यास्यसि त्वं पतङ्गत्वं, ॥७२॥ मत्कोपज्वलनेधुना ॥ ४॥ तेनेत्युक्तो द्विजो गत्वा, तदूचे करकण्डवे ॥ क्रोधाध्मातस्ततः सोपि, यात्राभेरीमवीवदत् ॥ ५ ॥ चतु
| रजचमूचक्रै-र्भुवमाच्छादयन्निव ।। जगाम चम्पानगरी, सर्वतस्तां रुरोध च ॥ ६॥ वीराणामुत्सव इवा-नन्ददायी ततोन्वहम् ।। पुरस्थायिबहिःस्थायि-सैन्ययोरभवद्रणः ॥ ७ ॥ ताञ्च पद्मावती साध्वी, वातां श्रुत्वेत्यचिन्तयत् ॥ अज्ञानेन पितापुत्रौ, कुरुतः समरं मिथः॥ ८ ॥ भूयसां प्राणिनां नाशो, दाववहाविवाहवे । तयोर्नरकदो भावी, तद्गत्वा शमयामि तम् ॥ ९॥ इति ध्यात्वा मुख्य-| | साध्वी-मापृच्छय च महासती ॥ करकण्डसमीपेगा-त्सोप्युत्थाय ननाम ताम् ॥ १०॥ साथ तस्मै रहः प्रोच्य, प्राच्यं वृत्तान्तमा| त्मनः ॥ इत्याख्यत्तव माताहं, पिता च दधिवाहनः ॥११॥ तत्तातेन समं युद्ध, न युक्तं ते महामते ! ॥ कुलीना हि न लुम्प|न्ति, गुरूणां विनयं क्वचित् ॥ १२ ॥ तदुत्वा तेन पृष्टौ ता-वृचतुः पितरावपि ॥ पुत्रो नः पालितोसि त्वं, सम्प्राप्तः प्रेतकानने
॥ १३ ॥ साध्वीवाक्ये ततो जात-प्रत्ययोपि स पार्थिवः॥ दानापासरजन्या-द्राजन्यानां ह्यसौ बहुः ॥ १४ ॥ आर्या ययौ ततो
मध्ये-पुरं राज्ञो गृहे द्रुतम् ।। ताञ्चोपालक्षयंश्चेव्यः, प्रणेमुश्च ससम्भ्रमम् ॥१५॥ दिष्टया दृष्टाद्य मातस्त्व-मियत्कालं क्व च स्थिता ।। ॥७२॥
| चिरात्कि दर्शनं दत्वं, किमिदं स्वीकृतं व्रतम् ॥१६॥ इत्याधुच्चैर्वदन्त्यस्ता, रुरुदुश्च मुहुर्मुहुः ।। इष्टानां दर्शने जीर्ण-मपि दुखं |नवायते ! ॥ १७॥ तं च कोलाहलं श्रुत्वा, तत्रायातो धराधिपः ॥ तां प्रणम्यसनं दत्वा, क गर्भ इति पृष्टवान् ॥१८॥ राजन् !