________________
उचराध्यपनपत्रम्
७१॥
मंत्रिपुङ्गवाः ।। ८२ ॥ तुरङ्गोऽपि भ्रमंस्तेषां, सुप्तानामन्तिके ययौ ॥ तश्च प्रदक्षिणीचक्रे, बालं देवमिवास्तिकः ॥ ८३ ॥ तच तेजखिन मेष्ठ-लक्षणं वीक्ष्य नागराः ॥ तुष्टा जयारवं चक्रु-स्तूर्यनिर्घोषमिश्रितम् ।। ८४ ॥ ध्वानेन तेन विध्वस्त-प्रमील: सोध| 2 बालकः ।। जृम्भायमाण उत्तस्था-वारुरोह च तं हयम् ।। ८५॥ तूर्यध्वनिप्रतिध्वाना-पूर्णद्यावाक्षमान्तरः ।। पौरैः परीतः परितस्तारापतिरिवोडुभिः ॥ ८६॥ युक्तः पितृभ्यां नगरे, प्रविशन् स च वाडवैः ।। अरोधि मातङ्ग इति, मातङ्ग इव शूकरैः ॥ ८७॥ [युग्मम् ] ततो गृहीत्वा तं दण्डं, करकण्डुः पुरोऽकरोत् ॥ तस्य राज्यप्रदाने हि, स एव प्रतिभूरभूत् । ८८॥ निर्मितो ज्वलनेनेवाज्वलद्दण्डस्तदा च सः॥ तश्च प्रेक्ष्य द्विजा भीता, नेशुः शरमिव द्विकाः॥ ८९॥ पुरे प्रविष्टो राज्ये चा-भिषिको धीसखादिभिः॥ सोथ राजा सजातीया-न्मातङ्गान्विदधे द्विजान् ॥ ९० ॥ उक्तश्च-"दधिवाहनपुत्रेण, राज्ञा च करकण्डुना ॥ वाटधानकवास्तव्याचाण्डाला ब्राह्मणीकृताः ॥ ९१ ॥” तस्यावकर्णक इति, त्यक्त्वाद्यं नाम नीरसम् ।। बालोक्तमेव तत्प्रोचुः, करकण्डुरिति प्रजाः ॥१२॥ प्राप्तराज्यश्च तं श्रुत्वा, दण्डच्छेदी स वाडवः ॥ आगत्योवाच राजन्मे, देहि ग्रामं तदोदितम् ॥ ९३ ॥ कं ग्राम ते ददामीति, राज्ञोक्तः स पुनर्जगौ ॥ चम्पायां मे गृहं तस्मा-चद्देशे ग्राममर्पय ॥ ९ ॥ ततो लेख लिलेखैवं, करकण्डुनरेश्वरः ।। दधिवाहनभूपालं, प्रति निष्प्रतिमो गुणैः ॥ ९५ ॥ "तथाहि-वस्ति श्रीकाश्चनपुरा-त्करकण्डुर्महीपतिः॥ सम्भाषते नृपं चम्पा-धिपं श्रीद-| धिवाहनम् ॥ ९६ ॥ परमात्मप्रभावेण, कल्याणमिह विद्यते ॥ श्रीमद्भिरपि तद्द्वाप्यं, स्वशरीरादिगोचरम् ॥ ९७ ॥ किश्चास्मै ब्राह्मणायैको, ग्रामो देयः समीहितः॥ दास्ये वो रुचितं ग्राम, नगरं वा तदास्पदे ॥ ९८ ॥ इदं कार्य ध्रुवं कार्य, नात्र कार्या विचारणा ।। मूल्यावाप्तो विमर्शो हि, व्यर्थ एवेति मङ्गलम्" ॥९९॥ लेखमेनं समादाय, विप्रश्चम्पापुरीं गतः। आस्थानस्थस्य भूपस्य, पाणि
119211
44464