________________
उत्तराध्य
यनपत्रम्
॥७॥
HOROCCOLOR
| णानेन तुष्टोस्मि, कृतं तदपरैः करैः॥ ६४ ॥ ततस्तस्याभिधां बालाः, करकण्डूरिति व्यधुः ॥ गुणक्रियादिभिर्नाम, नवीनमपि | जायते ॥ ३५ ॥ किश्चित्प्रौढत्वमापनः, श्मशानं च ररक्ष सह ॥ तदेव हि कुले तस्मिन्, गीयते कार्यमुत्तमम् ॥ ६६ ।। हेवोः । कुतश्चिदायातो, श्मशाने तत्र चान्यदा ॥ द्वौ मुनी वंशजालान्त-दण्डमेकमपश्यताम् ॥ ६७ ॥ तयोरेको यतिर्दण्ड-लक्षणज्ञो महा
मतिः ।। तं वंशं दर्शयन्नेव-मवादीदपरं मुनिम् ॥ ६८॥ यावता वर्धते चत्वा-र्यकुलान्यपराण्ययम् ॥ तावत्प्रतीक्ष्य यो ह्येन-मादत्ते | | स भवेन्नृपः ॥ ६९॥ तच्च साधुवचो वृक्ष-निकुञ्जान्तरवर्तिना ॥ तेन मातङ्गपुत्रेण, द्विजेनैकेन च श्रुतम् ।। ७०॥ ततो वंशस्य ४ | तस्याधः, खनित्वा चतुरङ्गुलम् ॥ छित्त्वा प्रछन्नवृत्त्या तं, वाडवो दण्डमाददे ॥७१।। तश्च प्रेक्ष्य द्विजेनातं, करकण्डः क्रुधा ज्वलन् । | आछिद्य जगृहे को बा, राज्यलक्ष्मी न कांक्षति ? ॥ ७२ ॥ ततस्तं करणे नीत्वा, दण्डं देहीत्यवग् द्विजः ॥ स प्रोचेऽसौ श्मशाने | मे, जातस्तन्न ददामि ते ।। ७३ ॥ विप्रोवोचदनेनैव, कार्य मे वर्चते ततः ॥ अस्य स्थानेन्यमादाय, दण्डमेनं प्रदेहि मे ॥ ७४ ॥ तेनेत्युक्तोपि तं दण्डं, करकण्डुरनर्पयन् ॥ कुतोऽमुं न ददासीति, पृष्टः कारणिकैस्तदा ॥ ७५ । बालोऽब्रवीत्सुरस्येव, दण्डस्यास्य प्रभावतः ॥ भविष्यामि नपो नूनं, तदस्यामुं ददे कथम् ? ॥ ७६ ॥ ततो विहस्य तं बाल-मेवं कारणिका जगुः ॥ राज्यावाप्तौ द्विजस्यास्य, ग्राममेकं त्वमर्पयेः ।। ७०।। तत्प्रपद्य निजं धाम, करकण्डुर्ययो द्रुतम् ॥ द्विजोप्यन्यान् द्विजानेव-मूचे गत्वा स्वमास्पदम् ।। ७८ ॥ दण्डं ममापि जग्राह, बलाच्चाण्डाल बालकः ॥ ततः कथञ्चित्तं हत्वा, दण्डमादद्महे वयम् ॥ ७९ ॥ कथमप्येतदाका-वकर्णकपिता ततः ॥ पत्नीपुत्रान्वितोनश्य-सुतरक्षाकृते क्षणात् ।। ८० ॥ गत्वा च काश्चनपुरे, ते त्रयोपि पुराबहिः । कुत्रापि सुषुपुः श्रान्ताः, स्वापो हि श्रमभेषजम् ॥८॥ तदा च नगरे तत्रा-पुत्रो राजा व्यपद्यत ॥ ततोधिवासयामासु-स्तुरङ्गं
७०॥
॥७०॥