SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ उचराध्यवनसूत्रम् ॥६९॥ ॥६९॥ ध्वजप्रान्त - चञ्चलैश्वर्यशर्मणि । चलेष्टजनसङ्गेस्मिन् भवे सौख्यं न किञ्चन ॥ ४६ ॥ जन्मरोगजराशोक - मृत्युदौः स्थ्याद्युपद्रवैः ॥ व्याव भवे दुःख - मेव प्रायो भवेद्विशाम् ॥ ४७ ॥ यच्चेह स्यात्सुखं किश्चिद्विषयाद्युपभोगजम् ॥ दुःखानुषङ्गात्तदपि, दुःख एव निमज्जति ।। ४८ ।। यत एव च संसारो, दुःखानामेकमास्पदम् ।। प्रपद्यन्ते मोक्षमार्ग - मत एव विवेकिनः ॥ ४९ ॥ इति तद्देशनां श्रुत्वा विरक्ता साददे व्रतम् । पृष्टाप्याचष्ट नो गर्भ चारित्राऽदानशङ्कया ॥ ५० ॥ गर्भवृद्धौ च साध्वीभिः, पृष्टा किमिदमित्यसौ । सत्यमूचे ततस्तास्तां, साध्वीं गुप्तमरक्षयन् ।। ५१ ।। गर्भकाले च सम्पूर्ण, शय्यातरगृहस्थिता || असूत सुतरत्नं सा, मणि रोहणभूरिव ।। ५२ ।। ततो गृहीत्वा तं बालं, गत्वा प्रेतवनेऽमुचत् ॥ तचातनाममुद्राङ्कं रत्नकम्बलवेष्टितम् ॥ ५३ ॥ द्रष्टुं तद्ग्राहकं साथ, तञ्च त्रातुमुपद्रवात् ॥ प्रच्छन्नं संस्थिताद्राक्षी-दृशा प्रेमामृतार्द्रया ॥ ५४ ॥ तत्रायातस्तदा प्रेत-वनेशोऽपत्यवर्जितः ॥ जगृहे तं निजगृहे, नीत्वापत्न्यै च दत्तवान् ॥ ५५ ॥ तस्यावकर्णक इति, सानन्दः सोमिधां व्यधात् || आर्यापि तद्गृहं वीक्ष्य, जगामोपाश्रयं निजम् ।। ५६ ।। क्व गर्भ इति साध्वीभिः पृष्टा चेत्यवदन्मृषा ॥ मृतः सुतो मया जातः, स च त्यक्तः क्वचित्ततः ॥ ५७ ॥ साध्योपि सरलाः सर्वा - स्तत्तथा प्रतिपेदिरे । बालस्तु ववृधे तस्य, सौधे पङ्क इवाम्बुजम् ॥ ५८ ॥ वत्सं गौरिव तं बालं, ध्यायन्ती सा तु संयता || जगाम प्रत्यहं प्रेत- वनपालस्य धामनि ।। ५९ ।। तत्पत्न्या च समं प्रेम, चक्रे सम्भाषणादिभिः ।। अलालयच्च तं बाल-महो ! मोहोतिदुर्जयः ||३०|| अवाप यच भिक्षायां, शोभनं मोदकादिकम् ॥ तद्वालायार्पयत्सोपि, तस्यां रागं दधौ ततः ॥ ६१ ॥ जन्मतस्तस्य देहे च, रूक्षकण्डूरभूभृशम् ॥ स च वृद्धिङ्गतो बालैः समं क्रीडनदोवदत् ॥ ६२ ॥ अहं वो नृपतिस्तस्माद्यूयं दत्त करं मम || बालाः प्रोचुः करस्थाने, ब्रूहि किं ते प्रदीयते ? ॥ ६३ ॥ स प्रोचे चण्डकण्डूको, मां कण्डूयध्वमुच्चकैः ॥ कारे अध्य० ९ ॥६९॥ -
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy