________________
SC
उत्तराध्यबननम् ॥६७॥
| पाथःसङ्गमसम्भवः ।। गन्धः प्रादुरभूर्भूमेः, सुरमि सिकन्धयः ॥ १० ॥ तश्च गन्धं समाघ्राय, ध्यायन् विन्ध्याचलाटवीम् ॥ | व्यालः काल इवोत्तालः, कान्तारं प्रत्यधावत ॥ ११ ॥ व्यावर्तमानो विक्रान्त-भूयोभिरपि स द्विपः ।। कदाग्रहादिव शठो, गमनान न्यवर्तत ॥ १२ ॥ कुर्वाणैर्विविधोपायान्, स्खल्यमानोपि मानवैः ॥ न तस्थौ सिन्धुरः सिन्धु-पूरः शरवणैरिव ॥ १३ ॥ विहस्तेषु, ततस्तेषु, पश्यत्स्वेव स हस्तिराट् ॥ पश्यतोहरवद्रूप- राज्यौ हृत्वा वनेऽनयत् । १४॥ तत्र प्रेक्ष्य क्षमापालो, दूरादेकं वद्रुमम् ॥ देवीमूचे गजो ह्येष, गन्ताऽमुष्य तरोरधः ॥ १५ ॥ तत्र चास्मिन् गते सद्यः, शाखां न्यग्रोधशाखिनः । गृह्णीयास्त्वं ग्रहीष्ये तच्छाखामहमपि प्रिये ! ॥ १६ ॥ आवां ततो गमिष्यावो, गजं हित्वा निजं पुरं ।। अन्यथा त्वावयोवी, वनेस्मिन् कोप्युपद्रवः ॥१७॥ प्रतिपन्नाप्यदो वाक्यं, वटस्थाधो गते गजे ॥ तच्छाखाग्रहणायालं, नाभूद्राज्ञी चिरक्रिया ॥ १८ ॥ मापस्तु दक्षस्तच्छाखा-मालम्ब्योदतरवटात् ॥ प्राणप्रियामपश्यंश्च, व्यलापीदिति दुःखितः ।। १९ ॥ अयि कांते ! कदा भावी, सङ्गमः पुनरावयोः ॥ अमुना रिपुरूपेण, करिणा वञ्चितोस्मि हा! ॥ २०॥ त्वद्वियोगोड़वं दुःखं, दावाग्नेरपि दुःसहम् ।। असोढपूर्व दयिते !,
सहिष्येहं कियच्चिरम् ? ॥ २१ ॥ दुःखमेतद् घटेऽम्भोधि-रिच माति न मे हृदि । तत्कि कुर्वे ? क्व गच्छामि !, पुरः कस्य ब्रवीमि भावा?॥२२॥ इत्यादि विलपन् दुःख-भरभङ्गुरमानसः ॥ दन्तिपादानुसारेण, ययौ चम्पापुरी नृपः ।। २३ ॥ राज्ञः प्रियां तु तां
दन्ती, निन्ये निर्मानुषाटवीम् ॥ पिपासाविवशस्तत्रा-विशच्चैकं महासरः ॥ २४ ॥ वाद्धौं सुरेभवत्तत्र, क्रीडति द्विरदे शनैः ।। उत्त
तार ततो राज्ञी, कुरङ्गीव महागिरेः॥ २५ ॥ सरस्ती च हंसीव, पुलिनोद्देशमागता ॥ पश्यन्ती परितोपश्य-दरण्यानी भयप्रदाम् Bih२६ ॥ यूथच्यूतक्कुरङ्गीव, ततः सात्यर्थमातुरा ॥ मुक्तकण्ठं रुरोदोच्चै-रोदयन्ती खगानपि ॥ २७ ॥ कथश्चिर्यिमालम्ब्य, दध्यौ
-15544444CACCI
MASI)
॥१०॥
4G