SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ उत्तराध्यवनसूत्रम् ॥६२॥ ॥६९॥ भोगाः स्त्रियोऽक्षिषु ॥ गतौ यानं खरे चाज्ञा सर्व सत्त्वे प्रतिष्ठितम् ||१||" इत्यादिकं । स्वनं च स्वप्नस्य शुभाशुभसूचकं शास्त्रं, "अलङ्कृतानां द्रव्याणां वाजिवारणयोस्तथा || वृषभस्य च शुक्लस्य, दर्शने प्राप्नुयाद्यशः ॥ १ ॥ " तथा "मूत्रं वा कुरुते स्वमे, पुरीपञ्चापि लोहितम् ।। प्रतिबुद्धयेत यः सोऽर्थ - नाशं प्राप्नोति निश्चितम् ॥ १ ॥" इत्यादिकं । अङ्गविद्यां च शिरःप्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिकां, “सिरफुरणे किर रज, पिअमेलो होइ बाहुफुरणम्मि । अच्छिफुरणंमि अ पिअं, अहरे पिअसंगमो होई ॥ १ ॥” इत्यादिकां । प्रणवमायाबीजादिवर्णविन्यासात्मिकां वा । चकारः सर्वत्र वाशब्दार्थः, ये प्रयुञ्जते व्यापारयन्ति, पुनर्ये इति ग्रहणं लक्षणादिभिः पृथक् सम्बन्धसूचनार्थ, ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते, न तु समस्तान्येव, 'न हु' नैव ते श्रमणा उच्यन्ते । इह च पुष्टालम्बनं विना तद्व्यापारणे एवमुच्यते, अन्यथा करवीरलता भ्रमकतपस्विनोऽपि तथात्वापत्तेः, एवं आचार्यैराख्यातं कथितमिति सूत्रार्थः ॥ १३ ॥ तेषां फलमाह जीविअं अनिअमेत्ता, पब्भट्ठा समाहिजो एहिं । ते कामभोगरसगिद्धा, उववजंति आसुरे काए ॥ १४ ॥ मूलम् — इह व्याख्या – इह जन्मनि जीवितमसंयमजीवितं अनियम्य द्वादशविधतपोविधानादिना अनियंत्र्य प्रभ्रष्टाः प्रच्युताः समाधिश्चितस्वास्थ्यं तत्प्रधाना योगाः शुभमनोवाक्कायव्यापाराः समाधियोगास्तेभ्यः तेऽनन्तरोक्ताः कामभोगेषु पूर्वोक्तेषु रसेषु मधुरादिषु च गृद्धा लोलुपाः कामभोगरसगृद्धाः, भोगान्तर्गतत्वेपि रसानां पृथग्ग्रहणमतिगृद्ध हेतुत्वख्यापकं, उपपद्यन्ते जायन्ते आमुरे असुरसम्ब अध्य० ८ ॥६२॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy