SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ | अध्य . . ***** एषणाशुद्धमप्यादाय कथं भोक्तव्यमिति ग्रासैषणामाह-रसेषु स्निग्धमधुरादिषु गृद्धो गृद्धिमान् न स्यान्न भवेद्भिक्षादोऽनेन रागत्याग उत्तराभ्य | उक्तो. द्वेषपेषोपलक्षणञ्चतत्ततश्च रागद्वेषविमुक्तो भुञ्जीतेति सूत्रार्थः ॥ ११ ॥ रसागृद्धश्च यत्कुर्यात्तदाहयवस्त्रम् | मूलम्-पंताणि चेव सेविजा, सीअपिंडं पुराणकुम्मासं। अदु बुक्कसं पुलागंवा, जवणठाए निसेवए मंधुं१२| ॥६ ॥ व्याख्या-प्रान्तान्येव नीरसान्येव सेवेत भुञ्जीत, कानि पुनः प्रान्तानीत्याह-शीतपिण्डं शीताहारं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यादत आह-पुराणाः प्रभूतवर्षधृताः कुल्माषा राजमाषास्तान्, एते हि पुराणा अत्यन्तपूतयो नीरसा भवन्तीति तद्ग्रहणं, उपलक्षणश्चैतत् पुराणमुद्गादीनां 'अदु' इत्यथवा 'बुक्कसं' मुद्गादिनहिकानिष्पन्नमन्न, पुलाकमसारं बल्लचनकादि, वा समुच्चये । 'जवणछाएत्ति' यापनार्थ देहनिर्वाहार्थ निषेवेत भूञ्जीत, मन्थुश्च बदरादिचूर्ण, चस्य गम्यमानत्वात् अतिरूक्षतया चास्य प्रान्तत्वं । इह |च यापनार्थमित्यनेनैतत्सूचितं, यदि तेन शरीरयापना स्यात्तदा तदेव सेवेत, यदि तु वातोद्रेकादिना तद्यापनैव न स्यात् तदा गच्छ*गतो मुनिः सरसमपि सेवेत । जिनकल्पिकादिगच्छनिर्गतस्तु प्रान्तादीन्येव सेवेत, तस्य तादृशानामेवादानानुज्ञानात् । पुनः क्रियाभि| धानं तु न सकृदेतानि सेवेत, किन्तु सर्वदापीति सूचनार्थमिति सूत्रार्थः ॥ १२ ॥ शुद्धषणाविपर्यये दोषमाह-- मूलम्-जें लक्खणं च सुविणं च, अंगविजं च जे पउंजंति । ६०॥ न हु ते समणा वुच्चंति, एवं आयरिएहिं अक्खायं ॥ १३ ॥ व्याख्या--ये मुनयो लक्षणं शुभाशुभसूचकं पुरुषादिलक्षणं तत्प्रतिपादकं शास्त्रमपि, लक्षणं, "अस्थिवर्थाः सुखं मांसे, त्वचि |A * ॥६ ॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy