________________
उचराध्यमनसूत्रम् ॥५९॥
॥५९॥
तयेदित्याह । 'सेति' यः प्राणान्नातिपातयति स समितः समितिमान् इत्युच्यते । किं भूतः सन्नित्याह, त्रायी अवश्यं प्राणित्राता, समितत्वेपि को गुणः १ इत्याह, ततः समितात् 'से इति' अथ पापकं अशुभं कर्म निर्याति निर्गच्छति, उदकमिव स्थलादत्युन्नतभूप्रदेशादिति सूत्रार्थः ॥ ९ ॥ यदुकं प्राणान्नातिपातयेदिति तदेव स्पष्टयति
मूलम् - जगनिस्सिएहिं भूएहिं, तसनामेहिं थावरेहिं च ।
तो तेसिमारभे दंड, मणसा वयसा कायसा चैव ॥ १० ॥
व्याख्या - जगन्निश्रितेषु लोकाश्रितेषु भूतेषु जन्तुषु, त्रसनामसु त्रसनामकर्मोदयवत्सु द्वीन्द्रियादिषु, स्थावरेषु पृथिव्यादिषु, चः समुच्चये नो नैव तेषु आरभेत कुर्याद्दण्डं वधात्मकं 'मणसा वयसा कायसा चैवत्ति' सूत्रत्वात् मनसा वचसा कायेन 'चैवत्ति' समुच्चये, इदमिह तात्पर्यं सव्वेवि दुक्खभिरू, सव्वेवि सुहाभिलासिणो सत्ता । सब्वेवि जीवणपिआ, सव्वे मरणाओ बीहंति ॥ १॥” | इति मत्वा न कस्यापि हिंसां कुर्यादिति सूत्रार्थः ॥ १० ॥ उक्ता मूलगुणा अथोत्तरगुणा वाच्यास्तेषु चैषणासमितिः प्रधानेति तामाहमूलम् --सुद्धेसणाओ नच्चा णं, तत्थ ट्ठविज भिक्खू अप्पाणं ।
जायाए घास मेसिज्जा, रसगिद्धे न सिआ भिक्खा ॥ ११ ॥
व्याख्या-शुद्धा निर्दोषा एषणा उद्गमोत्पादनाद्याः शुद्धैषणास्ता ज्ञात्वा तत्र स्थापयेन्निवेशयेद्भिक्षुर्मुमुक्षुरात्मानं, किमुक्तं भवति १ | अनेषणीयत्यागेन शुद्धमेव गृह्णीयात्तदपि किमर्थम् ? इत्याह - "जायाएत्ति' यात्रायै संयमनिर्वाहार्थम्, 'घासंति' ग्रासमेषयेद्गवेषयेत्
अध्य०७
॥५९॥