SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ 4- उत्तराध्य यनमत्रम् ॥५ ॥ अध्य . ७ 4- वा वधः? इत्यनवबुध्यमानाः । अनेन प्रथमव्रतमपि न विदन्ति आस्तां शेषाणीति सूचितं, अत एव मन्दा इव मन्दा मिथ्यात्वमहारो| गाकुलिताः 'निरयं' नरकं गच्छन्ति, बाला निर्विवेकाः पापिकाभिः पापहेतुभिदृष्टिभिर्दर्शनाभिप्रायरूपाभिः "ब्रह्मणे ब्राह्मणमालमेत, | इन्द्राय क्षत्रं, मरुभ्यो वैश्य, तपसे शूद्रं" तथा-"यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् ॥ आकाशमिव पङ्केन, नासौ पापेन, | लिप्यते ॥ १॥” इत्यादिकाभिर्दयादमबाह्याभिः, तेषां च नरकं गच्छतां वेषादिकं न त्राणाय स्वाद्यदुक्तं-" चर्मवल्कलचीराणि, कूर्चमुण्डशिखाजटाः न व्यपोहन्ति पापानि, शोधको तु दयादमौ ॥१॥" इति सूत्रार्थः ॥ ७॥ अत एवाह मूलम्-न हु पाणवहं अणुजाणे, मुच्चिज्ज कयाइ सव्वदुक्खाणं । ___ एवं आरिएहिं अक्खायं, जेहिं इमो साहुधम्मो पण्णत्तो ॥८॥ व्याख्या-न हु नैव प्राणवधं मृषावादादेरुपलक्षणश्चैतत्, 'अणुजाणेत्ति' अपेलृप्तस्य दर्शनादनुजानन्नपि आस्तां कुर्वन् कारयन् वा, मुच्येत त्यज्येत कदाचित् क्वापि काले 'सबदुक्खाणंति' सुव्यत्ययात्सर्वदुःखै, शारीरमानसैः क्लेशैः, ततो हिंसादिनिवृत्ता एव |श्रमणा भवं तरन्तीति तत्त्वम् । न चैतन्मयवोच्यत इत्याह, एवमुक्तनीत्या आर्यैस्तीर्थकरादिभिराख्यातं कथितं, यैराघैरसौ साधुधर्मो हिंसानिवृत्त्यादिः प्रज्ञप्तः प्ररूपित इति सूत्रार्थः ॥ ८॥ साधुधर्ममेवाहमूलम्-पाणे अनाइवाइज्जा,से समिएत्ति वुच्चइ ताई । तओ से पावयं कम्मं, निजाइ उदगं व थलाओ९ व्याख्या-प्राणान्नातिपातयेत्, चकारात्कारणानुमत्योर्निषेधमाह । मृषावादादिपरिहारोपलक्षणश्चैतत् । किमिति प्राणान्नातिपा % % % ॥५८॥ ||५८॥ %
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy