________________
उत्तराध्यबनएत्रम् ५७॥
मिषमग्नः, कर्मणेति सूत्रार्थः ॥ ५॥ ननु यद्येवं कर्मबन्धहेतवो भोगास्तहि किं न सर्वेऽपि तांस्त्यज्यन्तीत्याह
मूलम्--दुपरिच्चया इमे कामा, नो सुजहा अधोरपुरिसेहि । अह संति सुव्वया साह, जे तरंति अतरं वणिआ वा ॥६॥
अध्य०७ व्याख्या-दुष्परित्यजा दुःखेन परित्यक्तुं शक्या इमे प्रत्यक्षाः कामा शब्दाद्याः नो नैव 'सुजहत्ति आर्षत्वात्सुहानाः सुत्यजाः, | कैः? अधीरपुरुषैः असात्विकनरैः, यच्चेह दुःपरित्यजा इत्युक्त्वा पुनर्न सुजहा इत्युक्तं तदत्यन्तदुस्त्यजत्वख्यापक, अधीरग्रहणात्तु धीरैः | सुत्यजा एवेत्युच्यते, अत एवाह · अहेत्यादि ' अथेति वाक्यान्तरोपन्यासे, सन्ति विद्यन्ते, सुव्रता निष्कलङ्कव्रताः साधवो ये तरन्ति
अतिक्रामन्ति अतरं तरीतुमशक्यं भवमित्यर्थः । वणिज इव, वाशब्दस्य इवार्थत्वात् । यथाहि वणिजोऽतरं नीरधिं यानपात्रादिना तरन्ति एवमेतेऽपि व्रतादिना भवमिति । उक्तं च-विषयगणः कापुरुषं, करोति वशवर्तिनं न सत्पुरुषम् ।। बध्नाति मशकमेव हि, लू- | तातन्तुर्न मातङ्गम् ॥१॥” इति सूत्रार्थः ॥ ६ ॥ किं सर्वेऽपि साधवोऽतरं तरन्ति ? उत नेत्याह
मूलम्--समणा मु एगे वयमाणा, पाणवहं मिआ अयाणंता ।
मंदा निरयं गच्छंति, बाला पाविआहिं दिट्ठीहिं ॥ ७ ॥ व्याख्या-श्रमणाः मो वयमित्येके केचनान्यतीर्थिका वदमानाः स्वाभिप्राय दीपयन्तः, 'दीप्तिज्ञानयत्नविमत्युपसम्भाषोपमन्त्रणे ८ ॥७॥ वदः (३३३१७८॥) इत्यात्मनेपदम्' : प्राणववं प्राणघातं मृगा इत्र मृगा मूढत्वात् अजानन्तः! के प्राणिनः ? के वा तेषां प्राणाः? कथं
॥५७॥