________________
अपराध्य
सनरत्रम ॥३०॥
मूलम्--गाइदूरमणासण्णे, णपणेसि चक्खुफासओ। एगो चिहिज्ज भत्तहा, लंधिआ तं णइकमे ॥३३॥ अन्य
व्याख्या-'गाइदूरति' विभक्तिव्यत्ययात्रातिदरे विप्रकर्षवति देशे, तत्र भिक्षुनिर्गपाज्ञानात् एषणाशुद्धयसंभवाच्च, तथा नासो || प्रस्तावानातिनिकटे, तत्र पूर्वागतान्यभिषणामप्रीतिसंभवात् , नान्येषां भिक्षुकापेक्षया अपरेषां गृहस्थानां 'चक्खुफासोचि' अत्र सप्तम्यर्थे तसू, ततश्चक्षुःस्पर्शे दृष्टिगोचरे तिष्ठदिति सर्वत्र योज्यं, किंतु असौ भिक्षुर्मिधुनिष्क्रमणं प्रतीक्षते इति यथा गृहस्था न विदन्ति तथा विविक्तप्रदेशे तिष्ठदिति भावः । एकः पूर्वप्रविष्टभिक्षुकोपरि द्वेषरहितः, भक्तार्थ भोजननिमिचं 'लंघिअत्ति' उल्लंघ्य तमिति भिक्षुकं नातिकामेव न गृहमध्ये गच्छेत , तदपीत्यपवादादिदोषसंभवात् । इह च मितं कालेन भक्षयेदिति भोजनविधिममिधाय यत् | पुनर्भिक्षाटनकथनं तद्ग्लानादिनिमित्तं स्वयं वा क्षुधामसहिष्णोः पुनर्भमणमपि न दोषायेति ज्ञापनार्थमिति सत्रार्थः ॥ ३३ ॥ पुनस्तद्गतमेव विधिमाह
मूलम्--णाइ उच्चे व जीए वा, णासपणे णाइ दूरओ। फासुअं पक्खडं पिंडं, पडिगाहिज्ज संजए ॥३४॥ ____ व्यख्या-नात्युच्चे गृहोपरिभूम्यादौ नीचे वा भूमिगृहादौ स्थित इति शेषः, तत्रोत्क्षेपनिक्षेपनिरीक्षणाऽसंभवात् , दायकापायसंभवाच । यद्वा नात्युच्चो द्रव्यत उच्चैः कृतकंधरो भावतश्चाहं लब्धिमानिति मदाध्मातः, नीचश्च द्रव्यतोऽत्यन्तावनतग्रीवः भावतस्तु न मयाद्य किमपि लब्धमिति दैन्यवान् , वा शब्द उभयत्रापि समुच्चये । तथा नासन्ने नातिदूरप्रदेशे स्थित इति शेषः, आसमातिद् रयोहि यथायोग जुगुप्साशंकानेषणादयो दोषाः स्युः, तत्र स्थितश्च प्रासुकं सहजसंसक्तजजंतुरहितं परेण गृहिणा खार्थे कृतं परकृतं
-