SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ उपराध्य ॥२९॥ व्याख्या-काले प्रस्तावे सप्तम्यर्थे तृतीया, निष्कामेद्गच्छेदाहाराद्यर्थ भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसंभवात् । तथा काले च प्रतिकामेत् प्रतिनिवर्तत भिक्षाटनादिति शेषः । अयं भावः-अलामेऽल्पलामे वा अतिलाभार्थी न पर्यटनेव तिष्ठत , किं तर्हि कुर्यादित्याह-अकालं च तत्तक्रियाया असमयं विवर्य विहाय काले प्रस्तावे कालं तत्तत्कालोचितं प्रत्युपेक्षणाधनुष्ठानं समाचरेत् कुर्यात् । यदुक्तम् “ कालंमि कीरमाणं, किसिकम्मं बहुफलं जहा होइ ।। इअ सचिज किरिआ, णिअणिअकालंमि विण्णेआ॥१॥” इति सार्थः ॥ ३१ ॥ भिक्षार्थ निर्गतश्च यत्कुर्यात्तदाहमूलम्-परिवाडीए ण चिडेजा, भिक्खू दत्तेसणं चरे। पडिरूवेण एसित्ता, मिअं कालेण भक्खए ॥३२॥ व्याख्या-परिपाटयां पंक्यां भुजानमानवसंबंधिन्यां न तिष्ठेद्रिक्षार्थ. अग्रीत्यदृष्टकल्याणतादिदोषसंभवात् , यद्वा परिपाठयां दायकसौधसंबंधिन्यां पंक्तिस्थगृहभिक्षाय नैकत्रावतिष्ठेत् , तत्र दायकदोषापरिज्ञानप्रसंगात् । तथा भिक्षुर्दत्तं दानं तस्मिन् गृहिणा दीयमाने एषणा तद्गतदोषान्वेषणात्मिका दत्तषणा तां चरेदासेवेत, अनेन ग्रहणैषणा उक्ता, किं कृत्वा दवेषणां चरेदित्याह-'पडिरवेण' इत्यादि-प्रतिरूपेण चिरंतनमुनीनां प्रतिबिंबेन पतद्ग्रहादिधारणात्मकेन सकलान्यदर्शनिविलक्षणेन, न तु 'मिक्षापि नाडंबरं विना प्राप्यते' इति ध्यात्वा कृताडंबरेण, एषयित्वा गवेषयित्वा अनेन च गवेषणोक्ता, प्रासैषणामाह-मितं परिमितं, अमितभोजने हि म्वाध्यायविधातादिबहुदोषसंभवात् , कालेन "णमोकारेण पारिता" इत्याचागमोक्तप्रस्तावेन अताविलंबितरूपेण वा मक्षयेदरजीतेति सूत्रार्थः ॥ ३२ ॥ भिक्षाचर्या च कुर्वता पूर्वागताऽन्यभिक्षुकसंभवे यत्कार्य तदाह 4444444444444444
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy