________________
उपराज्यकनपत्रम् IR८||
अध्य०१ ॥२८॥
तद्भवत्यसाधोरमाधुभावस्य, तदेवमसाधोर्गुरुवाक्यमप्यनिष्टं स्यादित्युक्तमिति सूत्रार्थः ॥ २८ ॥ अमुमेवार्थ प्रकटयन्नाह-/ मलम्-हिअं विगयभया बुद्धा, फरसंपि अणुसासणं । वेसं तं होइ मढाणं, खंतिसोहिकरं पयं ॥ २९॥ ____ व्याख्या-हितं पथ्यं विगतभया इहलोकपरलोकादानाकरमादाजीविकामरणाऽश्लोकभयरहिता बुद्धा अवगततत्त्वाः मन्यते इति *शेषः, परुषमप्यनुशासनं गुरुकृतमिति ज्ञेयं । 'वेसंति' द्वेष्यं तदनुशासनं भवति मूढानां हिताहितविवेकविकलानां । शांतिः क्षमा. |
शुद्धिराशयशुद्धता. तत्करं उपलक्षणत्वान्मार्दवाजवादिकरमपि, क्षांत्यादिहेतुत्वाद्गुर्वनुशासनस्य, पदं ज्ञानादिगुणानां स्थानमिति सूत्रार्थः ॥ २९ ॥ पुनर्विनयमेवाह| मूलम्--आसणे उवचिठिज्जा, अणुच्चे अक्कुए थिरे । अप्पुट्टाई णिरुहाइ, णिसीइज्जप्पकुक्कुए ॥ ३० ॥
व्याख्या-आसने पीठादौ वर्षासु, ऋतुबद्ध तु पादपुछने उपतिष्ठत् , उपविशेत् , अनुच्चे द्रव्यतो नीचे भावतस्तु अल्पमूल्यादौ गुर्वासनादिति गम्यते, अकुचे अस्पंदमाने, नतु तिनिशफलकवत्किचिच्चलति, तस्य शृङ्गाराङ्गत्वात् । स्थिरे समपादस्थितितया निश्चले,
अन्यथा सत्वविराधनासंभवात् । इदृशेऽप्यासने 'अप्पुठाईत्ति' अल्पोत्थायी न पुनः पुनरुत्थानशीलः, निरुत्थायी निमित्तं विना | नोत्थानशीलः, निपीदेव आसीत 'अप्पकुक्कुएत्ति' अल्पस्पंदनः करादिभिरप्यल्पमेव चलन् , यद्वा अल्पं कौकुच्यं करचरणधूभ्रमणाद्यमचेष्टारूपं यस्य सोऽल्पकौकुच्य इति सूत्रार्थः ॥ ३० ॥ संप्रत्येषणासमितिविषयं विनयमाहमलम्-कालेण णिक्खमे भिक्खू. कालेण य पडिक्कमे । अकालं च वज्जित्ता, काले कालं समायरे॥३१॥