SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ उत्तराभ्य व्याख्या-समरेषु लोहकारशालासु, उपलक्षणं चैतदशेषनीचास्पदानां, अगारेषु गृहेषु, संधिषु, गृहद्वयान्तरालेघु, महापथे राज- अध्य०१ | पथादौ, एकोऽसहाय एकस्त्रिया सार्द्ध सह नैव तिष्ठेन्नैवोर्ध्वस्थानस्थो भवेत् , न संलपेन्न तयैव सह संभाष कुर्यात् , अत्यंतदुष्टताबनवम् ॥२७॥ ॥२७॥ ख्यापकं चात्रैकग्रहणं, अन्यथा ह्येवंविधास्पदेषु ससहायस्यापि स्त्रिया सहावस्थानं संभाषणं च दोषायैव, प्रवचनमालिन्यादिदोषसंभ | वात् , उक्तं हि " मात्रा खस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिंद्रियग्रामः, पंडितोऽप्यत्र मुह्यति ॥१॥” इति सूत्रार्थः ॥२६।। कदाचित् स्खलिते च गुरुणा शिक्षितो यत्कुत्तिदाह- मूलम्-जं मे बुद्धाणुसासंति सीएण फरुसेण वा । मम लाभोत्ति पेहाए, पयओ तं पडिस्सुणे ॥ २७ ॥ ___ व्याख्या-यन्मे मां बुद्धा गुरुवः अनुशासति शिक्षयन्ति, शीतेन उपचारात् शीतलेन आह्लादकेनेत्यर्थः, परुषेण वा कर्कशेन है वचसेति शेषः, मम लाभोऽप्राप्तार्थप्राप्तिरूपोऽयं, यन्मामनाचारकारिणममी मन्मार्गे स्थापयंति, इति प्रेक्षया एवंविधबुद्ध्या प्रयतः प्रयत्नवान् तदनुशासनं प्रतिशृणुयात् , विधेयतयाऽङ्गीकुर्यादिति सूत्रार्थः ।। २७॥ ननु अत्र परत्र च परमोपकारि गुरुवचनमपि किं कस्याप्यनिष्टं स्यात् ? येनैवमुच्यत इत्याह मूलम्-अणुसासणमोवायं, दुकडस्स च चोअणं । हिअंतं मण्णए पण्णो, वेसं होइ असाहुणो ॥ २८॥ ____ व्याख्या अनुशासनं शिक्षणं 'ओवायंति' उपाये मृदुपरुषभाषणादौ भवमौपायं, तथा दुष्कृतस्य च कुत्सिताचरितस्य च चोदनं || प्रेरणं, हा! किमिदमाचरितमित्यादिरूपं, गुरुकृतमिति दृश्य, हितमिहपरलोकोपकारि तदनुशासनादि मन्यते प्राज्ञः, द्वेष्य द्वेषोत्पादक A%A0040404GA ROSA%
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy