________________
ख
उचराध्य
च्छतः शिष्यस्य खयं दीक्षितस्योपसंपन्नस्य वा व्यागृणीयात्कथयेत् , यथा येन प्रकारेण श्रुतमाकर्णितं गुरुभ्य इति शेषः, न IDIअध्यक बनमत्रम्
| बुद्धिकल्पितमिति सूत्रार्थः ।। २३ ॥ पुनर्विनेयस्य वाग्विनयमाह-- ॥२६॥
| मूलम्-मुसं परिहरे भिख्खू , ण य ओहारिणि वए । भासादोसं परिहरे, मायं च वजए सया ॥२४॥
व्याख्या-मृषां असत्यं भूतनिवादिकं परिहरेत् . “धर्महानिरविश्वासो, देहार्थव्यसनं तथा । असत्यभाषिणां निंदा, दुर्ग६ तिचोपजायते ॥ १॥" इति विमृश्य सर्वप्रकारमपि त्यजेत् भिक्षुर्मुनिः, न च नैवावधारिणीं प्रस्तावाद्वाणी गमिष्याम एवेत्यादिनिश्चयात्मिकां वदेत् भाषेत, किंबहुना ? भाषादोषं सावधानुमोदनाद्यं जकारमकारादिकं च परिहरेत , मायां, च शब्दात् क्रोधादींश्च असत्यहेतून् वर्जयेत्सदा सर्वकालमिति सूत्रार्थः ।। २४ । किञ्चमूलम्-ण लविज पुठो सावजं, ण णिरटं ण मम्मयं । अप्पणछापरहा वा, उभयस्संतरेण वा ॥ २५ ॥
व्याख्या-न लपेन्नवदेव पृष्टः केनापि सावधं सपापं वचनमिति सर्वत्र ज्ञेयम्, न निरर्थ निष्प्रयोजनं अभिधेयशून्यं वा यथा" एष वन्ध्यासुतो याति, खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नातः, शशशृङ्गधनुर्द्धरः ॥१॥" इति । तथा न नैव मर्मगं मर्मवाचकं त्वं काणः' इत्यादिकं, अस्यातिसंक्लेशोत्पादकत्वादिति, आत्मार्थ स्वार्थ, परार्थ वा अन्यार्थ, उभयस्यात्मनः परस्य च प्रयोजनादितिशेषः, तथा अन्तरेण वा विना वा प्रयोजनमिति सूत्रार्थः ॥ २५ ।। इत्थं स्वगतदोषापोहमुक्त्वा उपाधिकृतदोषत्यागमाह__ मूलम्-समरसु अगारेसु संधीसु अ महापहे । एगो एगित्थिए सद्धिं, णेव चिढे ण संलवे ॥ २६ ॥