________________
उत्तराध्यबनसूत्रम् ॥२५॥
मोक्षार्थी उपतिष्ठेत् , मस्तकेन वन्दे इत्यादि वदन् सविनयमुपसप्पेत् गुरुं धर्माचार्यादिकं सदेति सूत्रार्थः ॥ २० ॥ तथामूलम्-आलवंते लवंते वा, ण णिसीज कयाइवि । चइऊण आसणं धोरो, जओ जत्तं पडिस्सुणे ॥ २१॥ अप०१
॥२५॥ __व्याख्या-आलपति सकृद्वदति, लपति वारंवारं, गुरौ इति गम्यते, न निषीदेव , न निषण्णो भवेत्, कदाचिदपि, व्याख्याना|दिकार्येण व्याकुलतायामपि, किन्तु त्यक्त्वा अपहाय आसनं पादपुछनादि, धीरो बुद्धिमान् , यतो यत्नवान् , 'जति' प्राकृतत्वात जकारस्य बिन्दुलोपे तकारस्य च द्वित्वे यद्गुरव आदिशति तत्प्रतिशृणुयादवश्यविधेयतयाऽभ्युपगच्छेदिति सूत्रार्थः ॥२१॥ अथ पृच्छाविनयमाह-/ मलम्-आसणगओ ण पुच्छिजा, णेव सिज्जागओ कया। आगम्मुकुडुओ संतो, पुच्छिज्जा पंजलीउडो॥२२ है।
व्याख्या-आसनगत आसनासीनो न पृच्छेत्सूत्रादिकमिति शेषः, नैव शय्यागतः संस्तारकस्थितस्तथाविधावस्थां विनेति गम्यते, कदाचिद्बहुश्रुतत्वेऽपि, अयंभावः-बहुश्रुतेनापि संशये सति प्रष्टव्यं, पृच्छता च गुरोरवज्ञा न कार्या, सदापि गुरुविनयस्या-18 नतिक्रमणीयत्वादिति, किं तर्हि कुर्यादित्याह-'आगम्मेत्यादि' आगम्य गुरुपार्श्वमेत्य उत्कटुको मुक्तासनः कारणे पादपुंछनादिगतो | वा सन् पृच्छेत् मूत्रादिकमिति शेषः, प्रांजलिपुटः कृतांजलिरिति सूत्रार्थः ॥२२॥ ईदृश्य शिष्यस्य गुरुणा यत्कार्य तदाह-- मूलम्-एवं विणयजुत्तस्स, सुतं अस्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरेज जहासुअं ॥२३॥ व्याख्या-एवं उक्तनीत्या विनययुक्तस्य सूत्रं कालिकोत्कालिकादि, अर्थ च तस्यैवाभिधेयं, तदुभयं सत्रार्थोभयं, पृच्छतो ज्ञातुमि
कसक