________________
M
अध०१ ॥
समस्त्रम् ॥२४॥
-5*5*
| तत्र हि वन्दारुलोकस्य गुरुमुखादशनादिना अप्रीतिः स्यादिति । तथा नैव कृत्यानां कृतिकर्माहर्हाणां गुरूणामित्यर्थः, पृष्ठतः पृष्ठदेश| माश्रित्य, तत्र द्वयोरपि मुखामेक्षणेन न तादृशो रसः स्यादिति, तथा न युंज्यान्न संघट्टयेत् अतिसंवेशदेशोपवेशनादिना ऊरुणा
आत्मीयेन ऊरूं गुरुसंबंधिनं, तथाकरणेऽत्यन्ताविनयप्रसंगात् , उपलक्षणं चैतत् शेषांगस्पर्शत्यागस्य । तथा शयने शय्यायां शयित उपविष्टो वा न प्रतिशृणुयात् न स्वीकुर्याद्गुरुवामिति शेषः. अयं भावः-शय्यास्थितः शिष्यो गुरुणा कृत्यं प्रति प्रोक्तो न तत्र स्थित एव करोम्येवेदमित्यादि वदेत् . किन्तु गुरुवचः श्रवणानन्तरं तत्कालमेव कृतांजलिगुरुपार्श्वमागत्य पादपतनपूर्वमनुगृहीतोऽह-| मिति मन्यमानो भगवनिच्छाम्यऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ १८॥ | मूलम्-णेव पल्हत्थि कुज्जा, पक्खोपडं व संजए । पाए पसारए वावि, ण चिट्टे गुरुणंतिए ॥ १९॥ |
व्याख्या-नैव पर्यस्तकां जानुजंघोपरि वस्त्रवेष्टनरूपां कुर्यात, पक्षपिण्डं वा बाहुद्वयेन कायपिण्डनात्मकं, संयतः साधुः, तथा | पादौ प्रसारयेद्वापि नैवेतीहापि योज्यम् , अत्र वा शब्दः समुच्चये, अपि नैव निक्षिपेदिति दर्शनार्थः । अन्यच्च-न तिष्ठेन्नासीत गुरूणामंतिके अत्यन्तसन्निधौ किन्तूचितप्रदेश एव, अन्यथा अविनयदोषसंभवात् , अनेन चावष्टंभादिकमपि तत्र नैव कुयोंदिति मूचितमिति सूत्रार्थः ॥ १९ ॥ पुनः प्रतिश्रवणविधिमाहमूलम्-आयरिएहिं वाहित्तो, तुसणीओ ण कयाइवि । पसायपेही णिआगट्टो उवचिठे गुरुं सया ॥२०॥
व्याख्या-आचार्यैर्गुरुभिः 'वाहित्तोत्ति' व्याहृतः शब्दितः तूष्णीकस्तूष्णींशीलो न कदाचिदपि ग्लानाद्यवस्थायामपि भवेत, किन्तु प्रसादप्रेक्षी प्रसादोऽसौ मे यदन्यसद्भावेऽपि गुरवो ममादिशंतीति प्रेक्षितुं विचारयितुं शीलमस्येति प्रसादप्रेक्षी, नियागार्थी |
*
*%
%*