SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 4% उत्तराभ्यबनपत्रम् ॥५५॥ % % % + तत्प्रतिबोधनीयपूर्वसङ्गतिकापेक्षमिति सूत्रार्थः ॥१॥ एवञ्च भगवतोद्गीते तालान् कुट्टयद्भिश्चौरैश्च प्रत्युद्गीतेऽस्मिन् ध्रुवके पुनर्भगवानाह मूलम्-विजहित्तु पुवसंजोगं, न सिणेहं कहिचि कुग्विजा। असिणेह सिणेहकरेहि, दोसपओसेहिं मुच्चए भिक्खु ॥ २॥ व्याख्या-विहाय त्यक्त्वा पूर्वसंयोगपूर्वपरिचितानां मातापित्रादिखजनानामुपलक्षणत्वाद्धनस्य च सम्बन्धं, न स्नेहमभिष्वङ्गं कचिद्वाह्येऽभ्यन्तरे वा परिग्रहे कुर्वीत कुर्यात्, तथा च को गुणः १ इत्याह, अस्नेहः प्रतिबन्धरहितः प्राकृतत्वाद्विसर्गलोपः, स्नेहक- 14 रेष्वपि पुत्रकलत्रादिषु आस्तामन्येषु, अपिश्चात्र लुप्तो द्रष्टव्यः, दोषाश्च इहैव मनस्तापादयः, प्रदोषाश्च परत्र नरकप्राप्तादयो दोषप्रदोपास्तैर्मुच्यते त्यज्यते भिक्षुरिति सूत्रार्थः ॥ २ ॥ पुनर्यदसौ कृतवांस्तदाह मूलम्-तो णाणदंसणसमग्गो, हिअनिस्सेअसाए सव्वजीवाणं । तेसिं विमोक्खणहाए, भासई मुणिवरो विगयमोहो ॥ ३ ॥ व्याख्या-'तोत्ति' ततोऽनन्तरं भाषते मुनिवर इति सम्बन्धः, स च कीदृश इत्याह । ज्ञानदर्शनाभ्यां प्रस्तावात्केवलाभ्यां समग्रः समन्वितः, किमर्थ भाषते ? इत्याह । 'हिअनिस्सेअसाएत्ति सूत्रत्वात् हितो भावारोग्यहेतुत्वात् पथ्यो यो निश्रेयसो मोक्षस्तस्मै तदर्थ, केषां ? सर्वजीवानां, 'तेसिंति' चस्य गम्यत्वात्तेषाञ्च पञ्चशतचौराणां विमोक्षणार्थ भाषते वक्ति वर्तमाननिर्देशस्तरकालापेक्षया मुनिवरो द्र विगतमोहः क्षपितमोहनीयकर्मा । इह च 'हिअनिस्सेअसाए सबजीवाणमित्यनेनैव चरितार्थत्वेऽपि 'तेसिं विमोक्खणडाएत्ति' यत् % + ॥५५॥ ॥५५॥ +CG
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy