________________
उत्तराध्यबनवत्रम् १२॥
कुतस्तवारतिरिति, पप्रच्छ स्नेहमोहितः ॥ २९ ॥ साऽवादीदद्य दासीना-मुत्सवः समुपस्थितः ॥ न च मे पत्रपुष्पादे-मूल्यं किञ्चन विद्यते ! ॥ ३० ॥ तद्विना तु सखीमध्ये, लभिष्येऽहं विगोपनाम् ॥ सश्रियो हि स्त्रियो निःस्वां, हीलयन्ति सखीमपि ॥ ३१ ॥ तच्छुत्वा कपिलोप्यन्त-रधृताऽधृतिमुच्चकैः॥ याति स्थानान्तरं दुःखं, प्रीत्या वारीव कुल्यया ॥ ३२॥ ततस्तमवदद्दासी, सुन्दर! त्वं विषीद मा । अत्रास्ति श्रेष्टिषु श्रेष्ठो, धनाख्यो धनदोपमः ॥ ३३ ॥ यस्तं प्रबोधयेत्सुप्तं, स तस्मै स्वर्णमाषको ।। ददातीति निशा शेषे, गहि त्वं तस्य मन्दिरे ॥ ३४ ॥ कल्पकाले च कल्याणिन् , कान्तैः कल्याणभाषितैः ॥ प्रबोधयेस्तं राजीव-मिवार्कः कोमलैः करैः ॥ ३५ ॥ इत्युक्त्वा कश्चिदन्यः प्राग, मा यासीदिति शङ्कया । औत्सुक्याज्ञातकाला सा, निशीथे प्रजिघाय तम् ॥ ३६ ।। स |
च राजनरैश्चौर, इति बद्धः पथि व्रजन ॥ प्रसेनजिन्महीजानेः, पुरः प्रातरनीयत ॥ ३७॥ राज्ञा पृष्टश्च वृत्तान्तं, सर्व सत्यं जगौ ४ निजम् ।। तच्छुत्वेत्यभ्यधाद्भूपः, कृपारसमहोदधिः ॥ ३८॥ यन्मार्गयसि तत्तुभ्यं, ददामि वद कामितम् ।। स्वामिन् विचार्य |
याचिष्ये, प्रोवाचेति ततो द्विजः ॥ ३८ ॥ सोऽथ राज्ञाभ्यनुज्ञातो, गत्वाऽशोकवनान्तरे ॥ दध्यौ वस्त्रादिकं भावि, न हि माषद्वयेन | मे ॥ ४०॥ तत्सुवर्णशतं याचे, यद्वा तेनापि नो भवेत् ॥ गृहयानादि तनिष्क-सहस्रं प्रार्थये नृपात् ! ॥४१॥ यद्वा तेनापि नापत्यविवाहादि भविष्यति || तल्लक्षं प्रार्थये दातुः, सत्वे किं स्तोकयाश्चया ॥ ४२ ॥ उद्धारो बन्धुदीनादे-लक्षेणापि न सम्भवी ॥ सम्पदा च फलं बन्धु-दीनादीनामुपक्रिया॥४॥कोटि कोटिशतं कोटि-सहस्त्र वा तदर्थये॥ तस्येति ध्यायतः पुण्य-वशादियमभून्मतिः॥४४॥ माषद्वितयमूलस्या-प्यहो लोभमहीरुहः॥ विस्फूजितं यत्कोटीनां, लाभेऽप्युच्चैः प्रवर्धते ! ॥४५॥ लोभः खल्पोऽपि लाभेना-ऽम्भो. जनालमिवाम्भसा ॥ वृद्धिं यातीत्यलं तेन, संतोषसुखदस्युना ॥ ४६॥ विदेशं मातृनिर्देशा-द्विद्यार्थमहमागतः ।। सापि नोपार्जिता
॥५२॥