SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ अध्यक उत्तराध्ययनसूत्रम् ॥५१॥ 41-54- हि त्वां पाठयिष्यति ॥१२॥ ततः स गत्वा श्रावस्ती-मिन्द्रदत्तं प्रणम्य च ।। आत्मानं ज्ञापयित्वोचे, ताताऽध्यापय मामिति ॥१३॥ | उपाध्यायोऽभ्यधावत्स ?, युक्तस्तेऽसौ मनोरथः ॥ विशेष नह्यहं कश्चित्, पश्यामि पशुमूढयोः ॥ १४ ॥ किन्तु ते भोजनं दातुं, निःस्वत्वादक्षमोऽस्म्यहम् ।। तद्विना च कथं नित्य-मखिन्नस्त्वं पठिष्यति ॥ १५॥ भ्रातुष्पुत्राय ते विद्यार्थिने प्राघुर्णकाय च ॥ भोज्यदानेऽप्यशक्तोऽस्मि, तन्मे दुःखायते भृशम् ! ।। १६ ॥ अलपत्कपिलस्तात !, कृतं चिन्तनयाऽनया ॥ भिक्षावृत्त्या करिष्येऽहं, | प्रत्यहं प्राणधारणम् ॥ १७ ॥ उवाच पाठकोभिक्षा-वृत्त्याऽध्येतुं न शक्ष्यते ॥ तदेहि तब भुक्त्यर्थ, प्रार्थये कश्चिदीश्वरम् ॥ १८॥ | इत्युक्त्वा स समं तेन, शालिभद्रेभ्यमन्दिरम् ॥ जगाम कुञ्जर इत्र, कलभेन समं सरः ॥ १९ ॥ ॐ भूर्भुवःस्वरित्यादि-गायत्रीमंत्र| वादिनम् ॥ दत्ताशिषं तमिभ्योऽपि, किंकार्यमिति पृष्टवान् ॥ २० ॥ ऊचे द्विजोऽमुं मन्मित्र-पुत्रमध्येतुमागतम् ।। भोजय प्रत्यहं ज्ञानो-पष्टम्भो हि महाफलः॥२१॥ सहर्ष शालिभद्रेण, तद्वाक्ये स्वीकृतेऽन्वहम्॥ पपाठ पाठकोपान्ते, भुक्त्वा तद्धानि माणवः॥२२॥ | भोक्तुङ्गतस्य तद्गेहे, कपिलस्यानुवासरम् ।। दास्येका तरुणी भोज्यं, शोभनं पर्यवेषयत् ।।२३।। तस्य विद्यामिरात्मानं, भोज्यैरङ्गश्च पुष्ण तः॥ उदभूद्यौवनं दाक्ष्या-कुरोज्जीवनजीवनम् ॥२४॥ हास्यशीलो द्विजः सोऽथ, तस्यां दास्यामरज्यत ॥ यौवनं हि विकारागां, | सर्वेषामादिकारणम् ॥२५॥ तया च रक्तया साकं, कपिलोरमताऽनिशम् ।। तदेकचित्ता तश्चैव-मूचे दास्यन्यदा रहः ॥ २६॥ | त्वमेव मे प्रियः किन्तु. निःस्वोऽसीत्यपरं नरम् ॥ सेवे वस्त्रादिहेतोश्चे-न ते कोपः प्रजायते ॥ २७ ॥ अन्वमन्यत निर्मन्यु-स्तत्रार्थे कपिलोऽपि ताम् ॥ तस्यां पुर्याश्चान्यदाऽऽसी-दासीनामुत्सवो महान् ॥ २८ ॥ तदा च प्रेक्ष्य तां दासी-मुद्विना कपिलो द्विजः।। ॥५१॥ - १ अल्पवयस्कः । X
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy