SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ SC-CRA " अथाष्टमाध्ययनम्" उचराज्य अध्य.७ बनसत्रम् ॥५०॥ व्याख्यातं सप्तममध्ययनं, अथ कपिलमुनिप्रणीतत्वेन कापिलीयाख्यमष्टममारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने रसगृद्धित्याग उक्तः, स च निर्लोभस्यैव स्थादित्यत्र निर्लोभत्वमुच्यते, इत्यनेन सम्बन्धेनायातस्याऽस्य प्रस्तावनार्थमादौ कपिलमुनिचरितमुच्यते । तत्रायं सम्प्रदायःजा तथाहि पुर्यां कौशाम्न्यां जितशत्रुमहीशितुः॥ पुरोधाः काश्यपाहोऽभू-विद्याम्भोनिधिपारगः ॥१॥ यशखिनी यशा नाम्नी, | तस्यासीत्प्राणवल्लभा ॥ अजनिष्ट तयोः सूनुः, क्रमेण कपिलामिधः॥२॥ कपिले च शिशावेव, विपेदे काश्यपोऽन्यदा ॥ कालः काल मकालं वा, न हि मृत्योरपेक्षते ॥ ३ । मृते तस्मिन्नृपोऽन्यसिन्, पुरोहितपदं न्यधात् ।। अस्तङ्गते रखो तेजः, प्रदोष इव दीपके ॥४॥ | हयारूढं धृतच्छत्रं तं नूतनपुरोहितम् ॥ गच्छन्तमन्यदापश्य-धशा भूरिपरिच्छदम् ॥ ५॥ तद्दर्शनानिलोद्भूत-भूरिदुःखानलार्दिता ।। | स्मारं स्मारं निजं कान्तं, रुरोद विवशा यशा ॥ ६॥ कपिलोऽपि निजामम्बां, रुदतीं वीक्ष्य दुःखितः ॥ रुदनित्यवदन्मात-स्त्वं | रोदिषि कुतोऽनिशम् ? ॥ ७ ॥ साऽवादीदस्य विप्रस्य, या सम्पत् पुत्र! वर्तते ॥ साऽभवत्वपितुः सर्वा, गता च त्वयि निर्गुणे |॥८॥ सत्यपि त्वयि पुत्रे यत्, क्रमायाताऽप्यऽगाद्रमा । ततोऽहं दुःखिता कुर्वे, रोदनं नन्दनाऽन्वहम् ॥ ९॥ सुतः प्रोचे ब्रूहि | मात-विद्याभ्यासाय पाठकम् ॥ यथा तदन्तिकेऽधीत्य, भवामि गुणवानहम् ॥ १० ॥ यशाऽशंसन्न कोऽप्यत्र, भवन्तं पाठयिष्यति। 18 ॥५॥ यो हि त्वां पाठयेत्तस्मै, कुप्येनव्यपुरोहितः ॥ ११ ॥ तद्वत्स! गच्छ श्रावस्ती, तत्रास्ति त्वत्पितुः सुहृत् ।।इन्द्रदत्तद्विजः प्राज्ञः, स ॥५०॥ %
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy