SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ अन्य समाहारे योगक्षेम, अप्राप्तविशिष्टधर्मावाप्तिं प्राप्तस्य च तस्य पालनं न संवित्ते न जानाति जन इति शेषः, अयं भावः-योगक्षेमाज्ञाने उत्तराध्य- हि भोगामिष्वङ्ग एव हेतुर्मनुष्यभोगाश्च धर्मप्रभावप्रभवदिव्यभोगापेक्षयाऽत्यल्पाः ततस्तत्त्यागतो भोगाभिलाषिणापि धर्म एव यतयनरत्रम् | नीयमिति सूत्रार्थः ।। २४ ॥ इत्थं दृष्टान्तपञ्चकमुक्तं, तत्र चादौ उरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वमुक्तं, अपायबहुलमपि है यन्न तुच्छं न तत्परिहतुं शक्यत इति काकिण्याम्रफल दृष्टान्ताम्यां तत्तुच्छत्वं दर्शितं, तुच्छमपि लाभच्छेदात्मकव्यवहाराभिज्ञतया आयव्ययतोलनानिपुण एव त्यक्तुं शक्त इति वणिग्व्यवहारदृष्टान्तः, आयव्ययतोलना च कथं कार्येति समुद्र दृष्टान्तस्तत्र च दिव्यका-18 |मानामब्धिजलोपमत्वमुक्तं, तथा च तेषामुपार्जनं महानायोऽनुपार्जनं तु महान् व्यय इति तत्त्वतो दर्शितमिति ध्येयं । इह च योगक्षेमासंवेदने कामानिवृत्त एव स्यादिति तस्य दोषमाह-- मूलम्-इह कामानिअदृस्ल, अत्तहे अवरज्झइ। सोच्चा नेआउअं मग्गं, जं भुजो परिभस्सइ ॥ २५ ॥2 व्याख्या-इहेति मनुष्यत्वे जिनमते वा प्राप्ते इति शेषः, कामेभ्योऽनिवृत्तोऽनुपरतः कामानिवृत्तस्तस्य आत्मनोऽर्थ आत्मार्थः | स्वर्गादिरपराध्यति, अनेकार्थत्वाद्धातूनां भ्रश्यति । कुतश्चैवमित्याह-श्रुत्वा उपलक्षणत्वात्प्रतिपद्य च नैयायिकं न्यायोपपन्न मार्ग रत्न त्रयरूपं, मुक्तिमार्ग यद्यस्माद्भूयः पुनः परिभ्रश्यति, कामनिवृत्तिं प्रतिपन्नोऽपि गुरुकर्मत्वात्ततः प्रतिपतति। ये तु श्रुत्वापि न प्रतिपन्नाः, ॥४७॥ श्रवणं वा येषां नास्ति तेऽपि कामानिवृत्ता एवेति भाव इति सूत्रार्थः ॥ २९ !। यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह13 मूलम्-इह कामनिअट्टस्स, अत्तट्टे नावरज्झइ । पूइदेहनिरोहेणं, भवे देवित्ति मे सुअं ॥ २६ ॥ C41964CCOCARPET ॥४७॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy