________________
अध्य.७
उचराध्य यनसूत्रम् ॥४६॥
-A-ORC-RASAR
| मूलम्-एवमदीणवं भिक्खु, आगारिच विआणिआ। कहन्नु जिच्चमेलिक्खं, जिच्चमाणोन संविद ॥२२॥
व्याख्या-एवमुक्तन्यायेन लाभान्वितं अदीनवन्तं दैन्यरहितं भिक्षु मुनिमगारिणं च गृहस्थं विज्ञाय विशेषेण तथाविधशिक्षावशाद्देवनरगतिप्राप्तिरूपेण ज्ञात्वा कथं केन प्रकारेण नु वितर्के 'जिचंति' सूत्रत्वात् जीयेत हारयेद्विवेकी विषयकषायादिभिरिति शेषः । 'एलिक्खंति' ईदृशं देवत्वादिलक्षणं लाभ, कथं च जीयमानो हार्यमाणो न 'संविदेत्ति' सूत्रत्वान्न संवित्ते न जानीते ? अपि तु संवित्त एघ, संविदानश्च यथा न जीयते तथा यतेतेति भावः इति सूत्रार्थः ॥ २२ ॥ समुद्रदृष्टान्तमाह-- मूलम्-जहा कुसग्गे उदगं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाणमंतिए ॥ २३ ॥
व्याख्या-यथेति दृष्टान्तोपन्यासे, कुशाग्रे दर्भकोटौ यदुदकं जलं तत्समुद्रेण समुद्रजलेन समं मिनुयात्, अयं भावः-यथा 8 कोप्यज्ञः कुशाग्रबिन्दुमादाय समुद्रजलमियदेवास्ति नाधिकमिति मानं कुर्यात् , न च कुशाग्रजलसमुद्रजलयोस्तुल्यत्वमस्ति। एवं मानु&ष्यकाः कामा देवकामानामन्तिके समीपे, अयमाशयो यद्यपि कश्चिचक्रवर्त्यादिमनुष्यकामान् देवकामोपमान मन्येत, परं कुशाग्रज-15
लबिन्दुसमुद्रवन्मनुष्यदेवकामानां महदेवान्तरमिति सूत्रार्थः ॥ २३ ॥ उक्तमेवार्थ निगमयन्नुपदेशमाहमूलम्-कुलग्गमित्ता इमे कामा, सन्निरुद्धम्मि आउए। कस्स हेउं पुरा काउं,जोगक्खेमं न संविदे ॥२४॥
* ॥४॥ व्याख्या-कुशाग्रमात्रा दर्भाग्रस्थितजलवदत्यल्पा इमे कामा मनुष्यसम्बन्धिनो भोगास्तेऽपि न पल्योपमादिमाने दीर्घ आयुषि, 15 ततः 'कस्स हेउंति' प्राकृतत्वात् कं हेतुं किं कारणं 'पुराकाउंति' पुरस्कृत्याश्रित्य, अलन्धस्य लाभो योगो लब्धस्य पालनं क्षेमस्तयोः
454545456
॥४६॥