SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ अध्यक CSC व्यफलानि कर्माणियात ते उपयान्ति प्राप्त व्याख्या-विमात्राभिर्विविधपरिणामाभिः शिक्षाभिः प्रकृतिभद्रकत्वादेरभ्यासरूपाभिः, उक्तञ्च-"चउहि ठाणेहिं जीवा मणुउत्तराध्य-४ स्साउअं निबंधंति, तंजहा-पगतिभद्दयाए, पगतिविणीअयाए, साणुकोसयाए, अमच्छरिअयाएत्ति" ये नराः गृहिणश्च ते सुत्रताश्च बनसूत्रम् |धृतसत्पुरुषव्रता गृहिसुव्रताः, सत्पुरुषव्रतश्च लौकिका अप्येवमाहुः-"विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्ति॥४५॥ मलिनमसुभङ्गेऽप्यसुकरम् ॥ असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।। १॥" आगमोक्तव्रतधारणं त्वेषां न सम्भवति, देवगतिहेतुत्वात्तस्य । यत्तदोनित्याभिसम्बन्धात् ते उपयान्ति प्राप्नुवन्ति मानुषी योनि, कि| मित्येवमत आह–'कम्मेत्यादि' हु यस्मात् सत्यान्यवन्ध्यफलानि कर्माणि ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः, सूत्रत्वायत्यये ४ कर्मसत्याः प्राणिनः इति सूत्रार्थः ॥ २० ॥ अथ लब्धलाभोपनयमाह| मूलम्-जेसिं तु विउला सिख्खा, मूलिअंते अइत्थिआ। सीलवंता सविसेसा, अदीणा जंति देवयं ॥२१॥ व्याख्या-येषां तु विपुला निःशङ्कितादिरूपदर्शनाचारादिविषयत्वेन विस्तीर्णा शिक्षा ग्रहणासेवनात्मिकास्तीति शेषः, मौलिक ॐ मूलधनरूपं मानुषत्वं ते नराः 'अइथिअत्ति' अतिक्रम्योल्लंघ्य, शीलवन्तः अविरतसम्यग्दृष्टयपेक्षया सदाचारवन्तः, विरताविरतापे क्षया त्वणुव्रतवन्तो विरतापेक्षया पुनर्महाव्रतादिमन्तः, सह विशेषेण उत्तरोत्तरगुणप्रतिपत्तिरूपेण वर्तन्ते इति सविशेषाः, अत एवा॥४५॥ |ऽदीनाः, कथं वयममुत्र भविष्यामः ? इति वैक्लल्यविकलाः, यान्ति देवतां देवत्वं ऐदंयुगीनजनापेक्षया चेत्थमुक्तं, विशिष्ट संहनना| दिसामग्रीसद्भावे तु मोक्षमपि यान्तीति सूत्रार्थः ॥ २१ ॥ उक्तमर्थ निगमयन्नुपदेशमाह-- थिः ॥ २०॥ ACA0% ॥४५॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy