________________
उत्तराध्यबगलम्
॥४४॥
॥४४॥
इत्यनेन तु शाख्यमुक्तं तच्च तिर्यग्गतिहेतु:, यदाहुः- “तिरिआउ गूढहिअओ, सढो ससल्लों समजिणइत्ति" अयं चात्र भावार्थः यतोऽयं बालो नरकतिर्यग्गतिहेतुभ्यां लोलताशाठ्याभ्यां देवत्वनरत्वे हारितस्ततोऽस्य द्विविधैव गतिः सम्भवतीति सूत्रार्थः ॥ १७ ॥ पुनर्मूलच्छेदमेव स्पष्टयति
मूलम् - तओ जिए सई होइ, दुविहं दुग्गइं गए। दुल्लहा तस्स उम्मग्गा, अद्धोए सुचिरादवि ॥ १८ ॥
व्याख्या - ततो देवत्वनरत्वाभावात् 'जिएत्ति' सर्व वाक्यं सावधारणमिति न्यायाजित एव हारित एव 'सइंति' सदा भवति द्विविधां नरकतिर्यगुरूपां दुर्गतिं गतः, कुतश्चैवं ? यतो दुर्लभा तस्य बालस्य 'उमग्गत्ति' नरकतिर्यग्गतिनिर्गमनरूपा अद्धायामनागतकाले सुचिरादपि प्रभूतायामपि बाहुल्यापेक्षया चैवमुक्तं, अन्यथा हि केचिदेकभवेनैव तत उद्धृत्य मुक्तिमपि लभन्त इति सूत्रार्थः ॥ १८ ॥ इत्थं पश्चानुपूर्व्या मूलहारिणि पूर्वमुपनयसुपदर्श्य मूलप्रवेशिनि तदुपदर्शनायाह
मूलम् - एवं जिअं सपेहाए, तुलिआ बालं च पंडिअं । मूलिअं ते पवेसंति, माणुस जोणिमिति जे ॥१९॥
व्याख्या - एवं उक्तनीत्या जितं देवत्वनरत्वे हारितं बालं 'सपेहाएत्ति' सम्प्रेक्ष्य सम्यगालोच्य, तथा तोलयित्वा गुणदोषवतया परिभाव्य बालं पण्डितं च मौलिकं मूलधनं ते मूलप्रवेशकवणिक् सदृशाः प्रवेशयन्ति ये मानुषां योनिमायान्ति, बालत्वं त्यक्त्वा तदुचितपांडित्यासेवनादिति सूत्रार्थः १९ ॥ कथं मनुष्ययोनिमायान्तीत्याहमूलम् - मायाहिं सिक्खाहिं, जे नरा गिहिसुवया । उविंति माणुस जोणिं, कम्मसच्चा हु पाणिणो ॥२०॥
अध्य० ७
॥४४॥