________________
उत्तराध्ययनरत्रम् ॥४३॥
मूलम्-माणुसत्तं भवे मूलं, लाभो देवगई भवे। मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥ १६ ॥
व्याख्या-मानुषत्वं मनुजजन्म भवेन्मूलमिव मूलं, स्वर्गापवर्गाद्युत्तरोत्तरलाभहेतुत्वात् । तथा लाभ इव लाभो नरजन्मापेक्षया विषयसुखादिभिर्विशिष्टत्वाद्देवगतिर्देवत्वात्वाप्तिर्भवेत, मूलच्छेदेन नरगतिहान्यात्मकेन जीवानां नारकत्वं तिर्यक्त्वं च ध्रुवं निश्चितं इदमिह पारम्पर्यम्-"यथा केपि त्रयः संसारिणो जीवा नरत्वं प्राप्ताः, तेष्वेको मार्दवार्जवादिगुणाढयो मध्यमारम्भपरिग्रहवान् मृत्वा मूल| रक्षकवणिग्वत् कार्षापणसहस्रस्थानीयं नृत्वमेव लेभे । द्वितीयस्तु सम्यक्त्वचारित्रादिगुणान्वितः सरागसंयमाल्लब्धलाभवणिग्वल्लाभतुल्यां
देवगति प्राप्तः। तृतीयस्तु हिंसामृषावादादिसावद्ययोगयुक्तश्छिन्नमूलवणिग्वत् मूलच्छेददेश्यां नरकतिर्यग्गतिमाससादेति सूत्रार्थः |॥ १६ ॥ मूलच्छेदमेव स्पष्टयतिमूलम्-दुहओ गइ बालस्स, आवई वहमूलिआ। देवत्तं माणुसत्तं च, जं जिए लोलयासढे ॥ १७ ॥
व्याख्या-'दुहओत्ति द्विधा गतिः प्रक्रमानरकगतितिर्यग्गतिरूपा बालस्य रागद्वेषाकुलस्य स्यादिति गम्यते । तत्र च गतस्य 'आवइत्ति' आपत् स्यात्, सा च कीदृशीत्याह-वधस्ताडनं मूलमादिर्यस्याः सा तथा, मूलशब्दाच्च छेदभेदभारारोपणादिपरिग्रहः । लभन्ते हि प्राणिनो नरकतिर्यक्षु विविधा वधाद्यापदः, किमित्येवमत आह-देवत्वं मानुषत्वं च यजितोहारितः 'लोलयासदेति' लोलता मांसादिलाम्पटयं तद्योगाजीवोपि लोलतेत्युक्तः, शठो विश्वस्तजनवञ्चकः, इह लोलताशब्देन पञ्चेन्द्रियवधादिकमुपलक्ष्यते, ततोऽनेन नरकहेतुरुक्तः, यदुक्तं-"महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदिअवहेणं जीवा निरयाउअं निअच्छंतित्ति" शठ
॥४३॥