SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ EKHA अध्या GS खस्थानात् स्थानान्तरं प्रति प्रस्थिता इष्टस्थानं गताच, तत्र च गतानामेको वाणिज्यकलाकलितः, अत्र एतेषु मध्ये लभते लाभं विशिउत्तराभ्य-६ष्टद्रव्योपचयात्मकं, एकस्तेष्वेवाऽन्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स मूलधनेन यावद्गृहानीतं तावतैवोपलक्षित आवनस्लम है गतः खंस्थान प्राप इति सूत्रार्थः ।। १४ ॥ तथा॥४॥ मूलम्-एगो मूलंपि हारित्ता, आगओ तत्थ वाणिओ। ववहारे उवमा एसा, एवं धम्मे विआणह ॥१५॥ व्याख्या—एकोऽन्यतरः प्रमादपरो द्यूतमद्यादिष्वत्यन्तमासक्तः मूलमपि हारयित्वा नाशयित्वा आगतः प्राप्तः स्वस्थानमिति शेषः, तत्र तेषु मध्ये वणिगेव वाणिजः, अत्र च सम्प्रदायः तथाहि पुर्यां काप्येको, बभूवेभ्यो महाधनः ॥ सम्प्राप्तयौवनास्तस्य, जज्ञिरे नन्दनास्त्रयः ॥ १॥ तेषां सहस्रं दीनारान्, दत्वा 3 &प्रत्येकमेकदा ॥ तद्भाग्यादिपरीक्षार्थ-मित्युवाच स नैगमः ॥२॥ गत्वा पृथक् पुरीवित्ते-नेयता व्यवहृत्य च ॥ कालेनैतावताऽऽग म्यं, युष्माभिः सकलैरिह ॥ ३ ॥ ततस्ते तद्धनं लात्वा, गत्वा चान्यान्यनीवृति ॥ पृथक् पृथक् पत्तनेषु, तस्थुः सुस्थितचेतसः ॥४॥ | तेष्वेकोचिन्तयत् प्रैपीत्, परीक्षार्थ पिता हि नः ॥ तोषणीयः स तद्भूरि-धनोपार्जनया मया ॥५॥ चश्चापुरुषकल्पो हि, पुमर्था साधकः पुमान् ।। पुमर्थेषु च सर्वेषु, प्रधानं गृहिणां धनम् ॥ ६॥ तदुपार्जनयोग्यं च, वयो मे वर्त्ततेऽधुना ॥ द्वितीयमेव हि वयो, ॥४१॥ द्रविणोपार्जने क्षमम् ।। ७ ।। यदुक्तं-"प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् ॥ तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ? ॥८॥" विमृश्येति द्यूतमद्य-वेश्यादि व्यसनोज्झितः यथोचितं व्ययन वित्त-मदनाच्छादनादिना ॥९॥ व्यापार विविधं कुर्वन्, ॥४१॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy