SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ राध्य बनरत्रम् ४०॥ नयुताङ्गमपि चतुरशीतिलक्षाहतं नयुतमिति'। का नामैवमुच्यते इत्याह-जा सेति' प्रज्ञापकः शिष्यान् प्रत्याह-या सा भवतामसाकञ्च प्रतीता । 'पण्णवओत्ति' प्रकृष्टं ज्ञानं प्रज्ञा सा विद्यते यस्यासौ प्रज्ञावान् , न च क्रियाविकलं ज्ञानं प्रकृष्टं स्यादिति प्रज्ञाशब्देन क्रियाप्याक्षिप्यते, ततश्च प्रज्ञावतो ज्ञानक्रियावतः स्थितिर्देवभवायुर्लक्षणा अधिकृतत्वादिव्यकामाश्च भवन्तीति शेषः, यान्यनेकवर्षनयुतानि दिव्यस्थितेर्द्विन्यकामानां च विषयभूतानि जीयन्ते हारयन्ति तद्धेतुभूतानुष्ठानाकरणेनेति भावः। दुर्मेधसो दुर्मतयो विषयविवशाः प्राणिन इति गम्यते, व पुनस्तानि हारयन्तीत्याह-उने वर्षशतायुषि, प्रभूते ह्यायुषि प्रमादादेकवारं हारितान्यपि पुनरयन्ते, असिंस्तु संक्षिप्तायुष्येकदापि हारितानि हारितान्येव श्रीवीरस्वामितीर्थे च प्रायो न्यूनवर्षशतायुषः एव प्राणिन इत्येवमुच्यते । अयं चेह समुदायार्थः, गुरुः शिष्यानुद्दिश्योपदिशति, असंख्यवर्षनयुतानि कोऽर्थः पल्योपमसागरोपमाणि ज्ञानक्रियावतो मुनेदेवलोकेषु स्थितिः | प्रक्रमात्कामाश्च सर्वोत्कृष्टा भवन्तीत्यस्माकं जिनवचः श्रद्दधतां प्रतीतमेवास्ति । दुर्मेधसस्तु इहत्ये स्वल्पायुपि तुच्छकामभोगेषु लोलुपा धर्माकरणेन तां स्थितिं तान् कामांश्च हारयन्तीति । दृष्टान्तदान्तिकयोजना त्वेवं, मनुष्याणामायुर्विषयाचातिस्वल्पतया काकिण्यानफलोपमाः, सुराणामायुःकामाश्चातिप्रचुरतया कार्षापणसहस्रराज्यतुल्यास्ततो यथा द्रमको राजा वा काकिण्याम्रफलकृते कार्षापणसहस्रं राज्यं च हारितवानेवमेतेऽपि दुर्धियोऽल्पतरमनुष्यायुः कामार्थ प्रभूतान् देवायुः कामान् हारयन्तीति सूत्रार्थः ॥१३॥ सम्प्रति न्यवहारोदाहरणमाह| मूलम्-जहा य तिण्णि वणिआ, मूलं घेत्तूण निग्गया। एगोत्थ लहए लाभ, एगो मूलेण आगओ ॥१४॥von व्याख्या-यथेति निदर्शनोपनिदर्शने, चशब्दः पूर्वोक्तदृष्टान्तापेक्षया समुच्चये, त्रयो वणिजः मूलं नीवीं गृहीत्वा निगताः ॐॐॐॐॐ ॥४०॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy