SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ नाह | ॥ १२ ॥ स्थैर्याभावे च भोगोऽपि, स्यादेषां जीवितापहः॥ तत्किम्पाकफलानीव, त्याज्यान्येतान्यपि प्रभो! ॥ १३ ॥ तेनेन्युक्तोपि उचराध्य M को दोषः १, स्यादेभिरिति चिन्तयन् ॥ बुभुजे तानि भूपो हि, दुस्त्यजा रसगृद्धता ! ॥१४॥ सुप्तसिंह इव दण्डघट्टना-दुत्थितो बनस्त्रम् ॥३९॥ लघु ततः फलाशनात् ॥ आमयः स नृपतिं व्यनाशय-न ह्यपथ्यनिघसः शुभावहः ॥ १९॥ इत्यपथ्याम्रफलाशने नृपदृष्टान्त इति सूत्रार्थः ॥११॥ एवं दृष्टान्तद्वयमभिधाय दार्टान्तिकयोजनामाह|| मूलम्-एवं माणुस्सगा कामा, देवकामाणमंतिए। सहस्सगुणिआ भुजो, आउं कामा य दिविआ ॥१२॥ [8] व्याख्या-एवमिति काकिण्याम्रकसदृशा मनुष्याणाममी मानुष्यकाः कामा विषया देवकामानामन्तिके समीपे किमित्येवमत | आह-सहस्रगुणिताः सहस्रलक्षणेन गुणकारेण गुणिता दिव्यकामा इति संवन्धः, भूयो बहून्वारान् मनुष्यायुःकामापेक्षया इति शेषः, आयुर्जीवितं कामाश्च शब्दादयो दिविभवा दिव्यास्त एव दिव्यका अनेन चैतेषामतिभूयस्त्वं सूचयन् कार्षापणसहस्रराज्यतुल्यतामाह। | इह च पूर्व 'देवकामाणमंतिएत्ति' काममात्रोपादानेऽपि 'आउं कामा य दिविआ' इत्यत्र यदायुषोप्यादानं तत्तत्रत्यायुष्कादीनामपि मनुष्यजीविताद्यपेक्षयातिभूयस्त्वख्यापनार्थमिति सूत्रार्थः ॥ १२ ॥ मनुष्यकामानामेव काकिण्यानफलोपमतां भावयितुमाह मूलम्-अणेगवासानउआ, जा सा पण्णवओ ठिई। जाणि जोअंति दुम्मेहा, ऊणे वाससयाऊए ॥१३॥ ॥३९॥ व्याख्या-अनेकानि बहूनि तानिचेहासंख्येयानि वर्षाणां वत्सराणां नयुतानि संख्याविशेषा अनेकवर्षनयुतानि,प्राकृतत्वात्सकारस्याकारः। नयुतानयनोपायस्त्वयं-"चतुरशीतिवर्षलक्षाः पूर्वाङ्ग,तच्च पूर्वाङ्गेन गुणितं पूर्व, पूर्व(क्रमेणैकानविंशति वारान्)चतुरशीतिलक्षाहतं नयुतानं, AASHAKAAS ॥३९॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy