________________
4%
अभ्यः
सभ्य- पनवम् ॥३६॥
|| तिप्राप्तिरूपोपाय उक्त इति सूत्रत्रयार्थः ॥ ७ ॥ अथ साक्षादैहिकापायं सूत्रद्वयेनाहमूलम्-आसणं सयणं जाणं, वित्तं कामे अ भुंजिआ । दुस्साहडं धणं हिच्चा, बहु संचिणिआ रयं ॥८॥
तओ कम्मगुरू जंतू, पचुप्पन्नपरायणे । अएव्व आगयाएसे, मरणंतंमि सोअई ॥ ९॥ व्याख्या-आसनं शयनं, यानं वाहनं, वित्त, कामांश्च शब्दादीन, भुक्त्वोपभुज्य, दुःखेन संहियते मील्यते इति दुःसंहृतं धनं | हित्वा द्यूताद्यसययेन, बहु प्रभूतं सञ्चित्योपाय॑ रजोऽष्टप्रकारं कर्म ॥ ८॥ ततः कर्मसञ्चयानन्तरं कर्मगुरुः कर्मभारितो जन्तुः, प्रत्युत्पन्न वर्तमानं तस्मिन् परायणस्तत्परः प्रत्युत्पन्नपरायणः । “एतावानेव लोकोऽयं यावानिन्द्रियगोचरः" इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इत्यर्थः । 'अएबत्ति' अजः पशुः स चेह प्रक्रमादुरभ्रस्तद्वत् । 'आगयाएसेत्ति' सूत्रत्वात् आदेशे प्राघुणके आगते सति, अनेन अपश्चितवेदिविनेयानुग्रहायोक्तमप्युरभ्रदृष्टान्तं सारयति, किमित्याह-मरणरूपः अन्तः अवसानं मरणान्तस्तस्मिन शोचति । अयं भावः-यथाऽऽदेशे समागते उरभ्रः शोचति तथाऽयमपि, धिग्मां ! विषयव्यामोहितमतिमुपार्जितगुरुकर्माणं! हा! क्वेदानीं मया | गन्तव्यमित्यादि प्रलापतः खिद्यते, नास्तिकस्यापि प्रायस्तदा शोकसम्भवादिति मूत्रद्वयार्थः॥९॥ ऐहिकमपायमुक्त्वा पारभविकमाह-|
मूलम्-तओ आउपरिक्खीणे, चुआ देहा विहिंसगा । आसुरीअं दिसं बाला, गच्छंति अवसा तमं ॥१०॥ ____ व्याख्या-ततः शोचनान्तरं 'आउत्ति' आयुषि तद्भवसम्बन्धिनि जीविते परिक्षीणे सर्वथा क्षयङ्गते च्युतो भ्रष्टो देहाद्विहिंसको विविधैः प्रकारैः प्राणिघातकः 'आसुरीअंति' असुरा रौद्रकर्मकर्मठास्तेषामियं आसुरी तां दिशं भावदिशं नरकगतिमित्यर्थः, बालो अज्ञो
%A4%
84%A4
॥३६॥