SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ कल्पितः सन् आदेशं परिकांक्षतीत्यनुवर्तते, एवमनेमैव न्यायेन बालो मूढः, अधर्मः पापमिष्टो यस्यासौ अधर्मेष्टः, यद्वा अतिशयेनाउखराच्या धर्मोऽधर्मिष्टः, ईहते वाञ्छति तदनुकूलाचरणेन नरकायुष्कं नरकजीवितमिति सूत्रार्थः ।। ४ ।। उक्तमेवार्थ प्रपञ्चयन् सूत्रत्रयमाह॥३५॥ I मूलम्-हिंसे बाले मुसावाई, अद्धाणंमि विलोवए । अन्न दत्तहरे तेणे, माई कम्नु हरे सढो ॥५॥ इत्थीविसयगिद्धे अ, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परंदमे ॥ ६॥ अयकक्करभोई अ, तुंदिले चिअलोहिए । आउअं नरए कंखे, जहा एस व एलए ॥७॥ व्याख्या-हिंस्रः स्वभावत एव प्राणिघातकः, बालोज्ञः, मृषावादी असत्यभाषकः, अध्वनि भागे व्रजतो जनानिति शेषः, विविधं सर्वस्वहरणादिना लुम्पतीति विलोपकः, अन्यैरदत्तं हरतीति अन्यादसहरः, स्तेनो ग्रामपुरादिषु चौर्येण कल्पितवृत्तिः, माथी | वञ्चनैकचित्तः, 'कं नु हरेति' कमिति कस्यार्थ नु वितर्के हरिष्यामीत्यध्यवसायी कबुहरः, शठो वक्राचारः ॥५॥ स्त्रीषु विषयेषु च PI गृद्धः, चः समुचये, मदानपरिमित आरम्भो भूरिजन्तूपमर्दको व्यापारः परिग्रहश्च धनधान्यादिसञ्चयो यस्य स तथा, भुञ्जानः खादन । 8मुरां मद्यं मांस, परिवृढः पुष्टमांसशोणिततया नानाक्रियासमर्थः, अत एव परंदमोऽन्येषां दमयिता ॥ ६॥ अजस्य छागस्य कर्कर | यद्भक्ष्यमाणं कर्करायते तच्चेह प्रस्तावादतिपक्कं मांसं तद्भोजी, अत एव तुन्दिलो बृहजठरः, चितलोहितः पुष्टशोणितः, शेषधातूपचयोमी | पलक्षणमेतत् , आपुर्जीवितं नरके सीमन्तकादौ कांक्षतीव कांक्षति, तद्योग्यकारम्भितया कमिव क इवेत्याह-"जहा एस व एलएत्ति' आदेशमिव यथा एडका प्रोक्तरूपः । इह व हिंसेत्यादिना सार्धश्लोकद्वयेमारम्भरसगृद्धी प्रोक्ते, आउअमित्यादिना श्लोकार्धेन तु दुर्ग SERH
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy