________________
उबराध्य पनसत्रम् ॥३४॥
REC
%95%
रम्यैः, सर्वेऽस्मत्स्वामिनन्दनाः ॥ उरभ्रं पोषयन्त्येनं, लालयन्ति च पुत्रवत् ॥ ६॥ मन्दभाग्याय मह्यं तु, न काले पाययन्त्यपः ॥
न च यच्छन्ति पूर्णानि, शुष्काण्यपि तृणान्यहो ! ॥७॥ पडिमेदेनसन्मात-मनो मे दयते भृशम् । ॥ अत एव च न क्षीर-मध व सद्यः पिबाम्यहम् ।। ८ ॥ तच्छुत्वा गौर्जगी वत्स :, किमत्रार्थे विषीदसि ॥ उरभ्रपोषणं ह्येत-दातुरार्पणसन्निभम् ॥ ९॥ रोगिणा
ऽभ्यर्थ्यमानं हि, निश्चितासन्नमृत्युना ॥ यथा पथ्यमपथ्यं वा, सर्व तस्मै प्रदीयते ॥ १० ॥ ज्ञेयं वस्स ! तथैवेद-मुरभ्रस्थापि पोषणम् ॥ लप्स्यते नियतं मृत्यु-मागतेऽभ्यागते ह्यसौ ॥११॥ शुष्कस्तोकणावाप्ति-रप्यसौ शोभना ततः॥ उपद्रवविनिमुक्तैः, सुचिरं जीव्यते यया ॥ १२॥ जनन्येत्युदितः प्रेम्णा, तर्णकः स्तन्यमापिबत् ॥ प्राघूर्णकाः समाजग्मु-तत्स्वामिसदनेऽन्यदा ॥१३॥ समुरभ्रं ततो हत्वा, गृहेशस्तानभोजयत् ॥ निघ्नन्ति हि परान् स्वल्पा-यापि स्वाय निर्दया ॥१४॥ सश्च दृष्ट्वा हन्यमान-ममानं
भीतमानसः ।। नापान्मातुः पयः साय-मायातायाः सतर्णकः॥ १५ ॥ दुग्धापाननिदानं च. पृष्टो मात्राऽब्रवीदिति ।। मातरय कुतो४ प्यत्रा-ऽऽययुः प्राघूर्णका घनाः ।। १६ ॥ ततो व्यात्ताननः कृष्ट-जिह्वाग्रो विह्वलेक्षणः ॥ हतोऽसत्स्वामिना दीनः, स मेषो विस्वरं || & रसन् ! ॥१७॥ तां दशां तस्य दृष्ट्वाहं, न पयः पातुमुत्सहे॥ भवन्ति मृदुचित्ता हि, परदुःखेन दुःखिताः ॥१८॥ धेनुर्जगौ ||
सुत ! तदैव मया तवोक्त-मूर्णायुपोषणमिहातुरदानदेश्यम् ॥ तत्तस्य दुःखमपहाय धृतिं विधाय, मां प्रश्रुतामनुगृहाण गृहाण दुग्धम् ॥ १९ ॥ इत्युरभ्र दृष्टान्त इति सूत्रार्थः ॥ ३ ॥ एवं दृष्टान्तमुक्त्वा तमेवानुवदन् दार्शन्तिकयोजनामाहमूलम्-जहा खलु से उरब्भे, आएसाए समीहिए । एवं बाले अहम्मिहे, ईहइ निरयाउअं ॥४॥
व्याख्या-यथा येन प्रकारेण खलु निश्चये स इति पूर्वोक्तस्वरूप उरभ्र आदेशाय प्राघूर्णकार्थ समीहितोऽसावादेशाय भावीति
॥३४॥
45%