________________
अध्या
बनसूत्रम् त
- मूलम्-तओ से पुढे परिवूढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकंखए ॥ २ ॥ उचराध्य
व्याख्या-तत इत्योदनादिभोजनात्स इत्युरभ्रः, पुष्ट उपचितमांसतया पुष्ठिमान् , परिवृढः समर्थः, जातमेदा उपचितचतुर्थ॥३३॥
| धातुः, अत एव महोदरो बृहज्जठरः, प्रीणितस्तापतो यथाकालमुपढौकिताहारादिभिरेव, विपुले विशाळे देहे सति आदेशं परिकांक्षतीव परिकांक्षति । इह च उरभ्रामकस्य प्राघूर्णकाभिकांक्षाभावेऽपि यदेवमुक्तं तदादेशयोग्योऽसौ जात इति जनरुच्यमानत्वात् , तद्योग्यश्च
तमिच्छतीत्युपचारादुच्यते, यथा हि वराह कनी वरमनिच्छन्त्यपि तमिच्छतीत्युच्यते, इति सूत्रार्थः ॥ २॥ ततश्च| मूलम्-जाव न एइ आएसे, ताव जीवइ से दुही ।अह पत्तंमि आएसे, सीसं छित्तूण भुजइ ॥ ३॥ ___व्याख्या-यावन्नति न समायाति आदेशोऽतिथिस्तावज्जीवति प्राणान् धारयति स उरभ्रो दुःखी, वध्यमण्डनमिवास्यौदनादेरदनस्य दानं । अहेत्यादि-अथानन्तरं प्राप्ते आगते आदेशे शिरो मस्तकं छित्त्वा द्विधा विधाय भुज्यते तेनैव स्वामिना प्राघूर्णकयुक्तेनेति शेषः । अत्र चायं सम्प्रदाय:
तथाहि नगरे कापि, गृहस्थः कोऽपि निष्क्रियः ॥ उरभ्रवालकं कश्चित् , पुपोषाऽतिथिहेतवे ॥ १ ॥ मुग्धत्वमञ्जुलाकार, कृत
कर्णाचूलकम् । स्वपिताङ्गं हरिद्रादि-रागालङ्कृतभूधनम् ॥ २॥ तश्चातिपीनबपुषं, गृहाधिपतिबालकाः॥ क्रीडाप्रकाविविधैः, ॥३३॥
द क्रीडयाञ्चक्रुरन्वहम् ॥ ३ ॥ [युग्मम्] तश्च दृष्ट्वा लाल्यमान-मुत्कोपः कोऽपि तर्णकः ॥ विमुक्तं गोदुहा मात्रा, गोपितं न पपौ 6॥३३॥
पयः॥ ४॥ लिहती तं ततः स्नेहा-द्धेनुः पप्रच्छ वत्सकम् ।। कुतो हेतोरिदं दुग्धं, न पिबस्यद्य नन्दन! ॥५॥ सोऽवादीद्भोजनै