SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ " अथ सप्तमाध्ययनम्" उचराध्य STROV बनपत्रमा ॥३२॥ ॥ॐ॥ व्याख्यातं षष्ठमध्ययनं साम्प्रतमौरभ्रीयाभिधं सप्तमं प्रस्तूयते, अस्य चाय सम्बन्धः, इहानन्तराध्ययने निग्रन्थत्वं उक्तं, तच्च रसगृद्धेः परिहारादेव स्यात्. तत्परिहारस्तु विपक्षे दोषदर्शनात्तच्च दृष्टान्तोपदर्शनद्वारा स्फुटं स्वादिति रसगृद्धिदोपदर्शकोर| भ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते, इत्यनेन सम्बन्धेनायातेऽमिन्नध्ययने दृष्टान्तपञ्चकं वाच्यं यदाह नियुक्तिकृत्-"ओरब्मे १|| कागिणी २ अंबएअ ३ ववहार ४ सायरे चेव ५॥ पंचेए दिटुंता, उरम्भिज्जंमि अज्झयणे ॥१॥" तत्रादावुरभ्रदृष्टान्ताभिधायकमिदमादिसूत्रम्| मूलम्--जहा एसं समुद्दिस्स, कोइ पोसिज्ज एलयं । ओअणं जवसं दिज्जा, पोसेज्जावि सयंगणे ॥ १ ॥ व्याख्या-यथेत्युदाहरणोपदर्शने, आदिश्यते विविधकार्येषु आज्ञाप्यते परिजनोऽसिन्नागत इत्यादेशः प्राघूर्णकस्तं समुद्दिश्य यथाऽसौ समेष्यति समायातश्चैन भोक्ष्यत इति विचिन्त्य कश्चित्परलोकनिरपेक्षः पोषयेत एलकमूरणकं, कथमित्याह-ओदनं भुक्तशेषं तद्योग्यशेषान्नोपलक्षणञ्चैतत् यवसं मुद्गमाषादि च दद्यात्तदग्रतो ढौकयेत् , पोषयेत् , पुनर्वचनमस्यादरख्यापनार्थ, अपिः सम्भाबने, संभाव्यते हि कोप्येवंविधो गुरुकर्मेति, स्वकाङ्गणे स्वकीयगृहप्राङ्गणे, अन्यत्र हि नियुक्तः कदाचिन्नौदनादि ददातीति स्वकाङ्गण इन्युक्तमिति सूत्रार्थः॥१॥ ततोऽसौ कीदृशो भवतीत्याह KHABARAHASRHA ॥३२॥ ॥३२॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy