________________
उपराष्य
यनसूत्रम्
॥३१॥
॥३१॥
मूलम् एवं से उदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदंसणधरे । अरहा णायपुत्ते भयवं वेसालिए विआहिएत्ति बेमि ॥ १८ ॥
व्याख्या - एवमनेन प्रकारेण 'से' इति, स स्वामी 'उदाहुति' उदाहृतवान् उवाचेत्यर्थः । अनुत्तरज्ञानी सर्वोत्कृष्टज्ञानवान् । तथाऽनुत्तरं सर्वोत्कृष्टं पश्यतीत्यनुत्तरदर्शी । सामान्य विशेषग्राहितया च दर्शनज्ञानयोर्भेदः । यदाहु:-"जं सामण्णग्गहणं, दंसणमेअं विसे सिअं नाणंति" अनुत्तरे ज्ञानदर्शने युगपदुपयोगाभावेपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः । पूर्वविशेषणाभ्यां हि ज्ञानदर्शनयोरुपयोगस्य भिन्नकालतोक्ता ततश्चोपयोगवल्लब्धिद्वयमपि भिन्नकाल भावीति व्यामोहः कस्यचिन्माभूदत उक्तमनुत्तरज्ञान दर्शनधर इति न पौनरुक्त्यं । अर्हन् तीर्थकरो, ज्ञात उदारक्षत्रियः स चेह सिद्धार्थस्तत्पुत्रो ज्ञातपुत्रः श्रीवर्द्धमानजिनः, भगवान् समग्रैश्वर्यादिमान्, विशालाः शिष्या यशःप्रभृतयो वा गुणा विद्यन्ते यस्य स वैशालिकः, 'विआहिएत्ति' व्याख्याता सदेवमनुजासुरायां पर्षदि धर्मस्य कथयितेति सूत्रार्थः ॥ १८ ॥ इति ब्रवीमीति प्राग्वत् ॥
इति श्रीतपागच्छीय महोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनि विमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षष्ठमध्ययनं सम्पूर्णम् ॥ ६ ॥
अध्य० ६
॥३१॥