________________
उत्चराध्य यनसूत्रम् ॥३०॥
CIC004
सौवीरादेः, खाद्यस्खाद्यानादानं तु यतेः प्रायस्तत्परिभोगासम्भवात् , कृतं स्वार्थमेव विहितं गृहस्थैरिति शेषः, प्रक्रमात् पिण्डादिकमेव || है लब्ध्वा प्राप्य भक्षयेदिति सूत्रार्थः ।। १५॥ भुक्तशेषश्च न दिनान्तरभुक्तये स्थाप्यमित्याह
अध्य०६ | मूलम्-सन्निहिं च न कुग्विजा, लेवमायाय संजए । पक्खी पत्तं समादाय, निरविक्खो परिव्वए॥ १६॥
व्याख्या-सन्निधिः समयोक्त्या दिनान्तरे भोजनार्थ भक्तादिस्थापनं तं न कुर्वीत, चः पूर्वापेक्षया समुच्चये, लेपमात्रया यावता ४. पात्रं लिप्पते तावन्तमपि सन्निधिं न कुर्यादास्तां बहुं, संयतो मुनिः, किमेवं पात्रायुपकरणसन्निधिरपि न कर्तव्य इत्याह-'पक्खीत्यादि | पक्षीव पक्षी, पात्रं पतगृहादिभाजनं, उपलक्षणत्वाच्छेषोपकरणश्च समादाय गृहीत्वा निरपेक्षो निरभिलाषः परिव्रजेदयं भाव:- यथा पक्षी पक्षसञ्चयमादाय याति तथायमपि पात्रादिकमिति, ततश्च प्रत्यहमसंयमपलिमन्थभीरुत्वात् पात्रादिसन्निधिकरणम् न दोपायेति सूत्राथैः ॥ १६ ॥ कथं पुनर्निरपेक्षः परिव्रजेदित्याहमूलम्-एसणासमिओ लज्जू , गामे अनियओ चरे । अप्पमत्तो पमत्तेहिं, पिंडवायं गवेसए ॥ १७ ॥
व्याख्या-एषणायामुद्गमोत्पादनग्रहणग्रासविषयायां समित उपयुक्त एपणासमितः, अनेन निरपेक्षत्वमुक्तं, लज्जूत्ति' लजा संयमस्तद्वान्, ग्रामे उपलक्षणत्वान्नगरादौ च अनियतवृत्तिश्चरेत् विहरेत्, अनेनापि निरपेक्षतेवोक्ता, चरंश्च किं कुर्वीतत्याह-अप्रमत्तः सन् प्रमत्तेभ्यो गृहस्थेभ्यस्ते हि विषयादिसेवनासक्तत्वात्प्रमत्ता उच्यन्ते पिण्डपातं भिक्षां गवेषयेदिति सूत्रार्थः ॥ १७ ॥ इत्थं संय-18
द ॥३०॥ मस्वरूपप्ररूपणद्वारा निर्ग्रन्थस्वरूपमुक्तं, न चैतन्निजमतिविकल्पितमित्याह
॥३०॥