________________
अयं ६
उचराध्यबनस्त्रम् ॥२९॥
य नारया १३ देवसंघाया १४ ॥१॥ सम्मुच्छिम १५ कम्मा १६ कम्मभूमिगनरा १७ तहतरद्दीवा १८ भावदिसा दिस्सइ, जं संसारी नियममेआहिं ।। २ ।" इतिगाथाद्वयोक्ताः पश्यन् अप्रमत्तः प्रमादरहितः, यथा तेषां एकेन्द्रियादीनां विराधना न स्यान्न च तेषु पुनरुत्पत्तिर्भवति तथा परिव्रजेः संयमाध्वनि यायाः सुशिष्येति सूत्रार्थः ॥ १३ ॥ कथं परिव्रजेदित्याहमूलम्-बहिआ उड्ढमादाय, नावकंखे कयाइवि । पुवकम्मक्खयहाए, इमं देहं समुद्धरे ॥ १४ ॥
व्याख्या-बहिर्भूतं संसारादिति गम्यते, ऊद्र सर्वोपरिस्थितमर्थान्मोक्षमादाय गृहीत्वा मयैतदर्थ यतितव्यमिति निश्चित्य नावकांक्षेद्विषयादिकं नाभिलषेत् कदाचिदपि उपसर्गपरीषहाकुलिततायामपि आस्तामन्यदा । एवञ्च सत्याकांक्षकारणं देहधारणमप्ययुक्त मित्याशङ्कापोहार्थमाह-पूर्व पूर्वकालभावि यत्कर्म तत्क्षयार्थ इमं प्रत्यक्षं देहं समुद्धरेत् उचिताहारादिभिः परिपालयेत् , तद्धारणस्य विशुद्धिहेतुत्वात्तत्पाते हि भवान्तरोत्पत्तावविरतिः स्यादुक्तश्च-"सत्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चति अइवायाओ, | पुणो विसोही न याविरई ॥ १॥" ततो निरभिष्वङ्गतया शरीरोद्धरणमपि कर्त्तव्यमिति सूत्रार्थः ॥ १४ ॥ देहपालने च निरभिष्व माताविधिमाहमूलम्-विच्च कम्मणो हेडं, कालकंखी परिव्वए । मायं पिंडस्स पाणस्स, कडं लण भक्खए॥१५॥
व्याख्या-विविच्य पृथक्कृत्य कर्मणो ज्ञानावरणादेहेतुमुपादानकारणं मिथ्यात्वाविरत्यादिकं, कालमनुष्ठानावसरं कांक्षतीत्येवं शीलः कालकांक्षी परिव्रजेदिति प्राग्वत् , मात्रां यावत्या संयमनिहस्तावती ज्ञात्वेति शेषः, पिण्डस्य ओदनांदः, पानस्य च
94544604594344CARE
॥३९॥