SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ उचराज्यबनसत्रम् ॥२८॥ ॥२८॥ विद्यानुशासनं त्रायते पापान्न कुतोऽपि तन्मात्रादेव मुक्तौ शेषानुष्ठानवैयर्थ्यप्रसङ्ग इति भावः । ये तु विद्यानुशासनं त्राणायेत्याहुस्ते कीदृशा इत्याह- 'विसण्णत्ति ' विविधं सन्ना मग्नाः पापकर्मसु हिंसाद्यनुष्ठानेषु सततकारितयेति भावः कुतश्चैवं १ यतस्ते चाला मूढाः पण्डितमात्मानं मन्यन्त इति पण्डितमानिनः, अयं भावः - ये बालाः पण्डितमानिनश्च न स्युस्ते स्वयं सम्यगजानानाः परं पृच्छेयुस्तदुपदेशाच्च दुष्कर्माणि त्यजेयुर्न तु तेषु विषण्णा एवासीरन् ! ये तु बालाः पण्डितमानिनच ते तु स्वयमज्ञा अपि ज्ञत्वगर्वादन्यं ज्ञान - मनाश्रयन्तो विषण्णा एव स्युरिति सूत्रार्थः ॥ ११ ॥ अथ सामान्यतयैव मुक्तिपथप्रत्यर्थिनां दोषमाह मूलम् - जे केइ सरीरे सत्ता, वण्णे रूवे अ सव्वसो । मणसा कायवक्कणं, सब्वे ते दुक्खसंभवा ॥ १२ ॥ व्याख्या- ये केचिच्छरीरे सक्ता लालनाभ्यञ्जनोद्वर्त्तनादिभिर्बद्धाग्रहाः, तथा वर्णे गौरवखादिके, रूपे सौन्दर्ये, च शब्दात् रूपशदिषु च सक्ता आसक्ताः, 'सबसोनि' सूत्रत्वात्सर्वथा स्वयं करणकारणादिभिः सर्वैः प्रकारैः, मनसा कथं वयं पीनदेहा वर्णादिमन्तश्च भविष्याम इति ध्यानात्, कायेन रसाद्युपभोगेन, वाक्येन रसायनादिप्रश्नरूपेण, सर्वे ते ज्ञानादेव मुक्तिरित्यादिवादिनो दुःखसम्भवा इहामुत्र च दुःखभाजनमिति सूत्रार्थः ॥ १२ ॥ यथा चैते दुःखभाजनं तथा दर्शयन्नुपदेश सर्वखमाह मूलम् - आवन्ना दीहमद्धाणं, संसारंमि अनंतए । तम्हा सव्वदिसं पस्स, अप्पमतो परिव्व ॥ १३ ॥ व्याख्या - आपन्नाः प्राप्ता दीर्घमनाद्यनन्तं अध्वानमिवाध्वानं, अन्यान्यभवभ्रमणरूपं मार्ग, संसारे अनन्तके अपर्यवसाने दुःखान्यनुभवन्तीति शेषः तम्हत्ति' यस्मादेवमेते मुक्तिमार्गवैरिणो दुःखसम्भवास्तस्मात् 'सङ्घदिसंति' सर्वदिशः प्रस्तावादशेष भावदिशोष्टादशमेदा: " पुढवि १ जल २ जलण ३ वाया ४ मूला ५ खंध ६ ग्ग ७ पोरबीआय ८ ।। बि ९ ति १० च ११ पणिदितिरिआ १२ का अध्य● ६ ॥२८॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy