________________
उचराध्ययनसूत्रम्
॥३७॥
॥३७॥
गच्छति अवशः परवशः, सर्वत्र बहुवचननिर्देशस्तु एक एवं नैतादृशः किन्तु भूयांस इति सूचनार्थ, 'तमंति' तमोयुक्तां गतिविशेषणश्चैतत्, यदुक्तं-निचंधयारतमसा, ववगयगहचंदसूरणकखत्ता || निरया अणतविअणा, पणडुसद्दाइविसया य ॥ १ ॥ इति सूत्रार्थः ॥ १०॥ सम्प्रतिकाकिण्यादृष्टान्तद्वयमाह-
मूलम् - जहा कागिणीए हेडं, सहस्सं हारए नरो ॥ अपत्थं अंबगं भुच्चा, राया रज्जं तु हारए ॥ ११ ॥ व्याख्या -- यथेति दृष्टान्तोपदर्शने काकिण्या रूपकाशीतितमभागरूपायाः 'हेउति' हेतोः कारणात्सहस्रं दशशतात्मकं दीनाराणामिति गम्यते, हारयेन्नरः पुमान् । इहासौ सम्प्रदायःI
तथाहि दुर्गतः कोऽपि भ्रामं भ्रामं महीतले । उपायैर्विविधैर्निष्क - सहस्रं समुपार्जयत् ॥ १ ॥ वनले सह सार्थेन, तदादाय गृहं प्रति ॥ जन्मभूमिजन्मिनां हि, नान्यदेशेऽपि विस्मरेत् ॥ २ ॥ विधाय काकिणीरेक-रूपकस्य स चाध्वनि ॥ एकैकां काकिणीं नित्यं, व्ययतिस्माऽशनादिना ॥ ३ ॥ अन्यदा काकिणीमेकां, विस्मार्य क्वापि सोऽचलत् ॥ दूरंगतश्च तां स्मृत्वा, चेतसीति व्यचिन्तयत् ||४|| काकिण्येकावशिष्टा मे, विस्मृता भोजनास्पदे । इतस्तृतीयदिवसे, लप्स्ये चाहं गृहं निजम् ।। ५ ।। तदेककाकिणीर्हतो - रन्यरूपकमेदनम् ॥ प्रातर्भावीति तामेव व्याघुट्य द्रुतमानये ॥ ६ ॥ ध्यात्वेति क्वापि सङ्गोप्य, स द्रव्यनकुलं द्रुतम् ॥ न्यवर्तिष्ट विमूढा हि, स्वल्पार्थ भूरिहारिणः ! ॥ ७ ॥ गोप्यमानश्च तं द्रव्य-नकुलं कोऽपि दृष्टवान् ॥ तस्मिन् गते तु तं हत्वा ततस्तूर्ण स नष्टवान् ॥८॥ सोऽथ तद्विस्मृतिस्थान - मवाप्तो दुःस्थपूरुषः ।। तत्रागतेन केनापि, हृतां न प्राप काकिणीम् ॥ ९ ॥ ततोऽसौ द्रव्यनकुल-स्थापनस्थानमागतः ॥ नापश्यत्तत्र तमपि धूर्त्तधाम्नीव सूनृतम् ॥ १० ॥ कृच्छाघे ततस्तस्मिन् धने नष्टे स निर्धनः। प्राप्तप्रणष्टनयन, इवो
अध्य०७
ગા